Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1335
________________ एकोनविंशः सर्गः। मनसो मम संसारबन्धमुच्छेत्तुमिच्छतः । रामचन्द्रपदाम्भोजयुगलं निगडायताम् ॥ अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् । शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥ अन्वयः-श्रुतवताम् अपश्चिमः वशी राववः पश्चिमे वयसि स्वे पदे, अग्नितेजसं तनयम् अग्निवर्णम् अभिषिच्य नैमिषं शिश्रिये। व्याख्या-श्रुतं = शास्त्रमस्ति येषां ते श्रुतवन्तस्तेषां श्रतवतां = विदुषाम् न पश्चिमः = नान्तिमः इति अपश्चिमः = प्रथमः वशोऽस्यास्तीति वशी = जितेन्द्रियः राघवः =राजा सुदर्शनः पश्चिमे अन्तिमे वार्धक्ये वयसि = अवस्थायां स्वे पदे = निजस्थाने स्वीयराज्यासने-इत्यर्थः अग्निः = वह्निरिव तेजः = प्रतापो यस्य स तम् अग्नितेजसम् तनयं = पुत्रम् अग्ने इव वर्णः यस्य स तम् अग्निवर्णम् = अग्निवर्णनामकम् अभिषिच्य =राज्याभिषेकं कृत्वा निमिषान्तरमात्रेण निहत. मासुरं बलं यत्र तत् नैमिष = नैमिषारण्यक्षेत्रं = शिश्रिये श्रितवान्। तपसे नैमिषारण्यं गत इत्यर्थः । समासः-न पश्चिमः अपश्चिमः। अग्नेरिव वर्णः यस्य सः अग्निवर्णः अग्निना तुल्यं तेजो यस्य सः अग्नितेजास्तम् अग्नितेजसम् ।। हिन्दी-विद्वानों में प्रथम ( श्रेष्ठ ) जितेन्द्रिय, रघु के कुल में उत्पन्न राजा सुदर्शन, वृद्धावस्था के आनेपर ( बुढ़ौती में ) अपने स्थान पर अग्नि के समान तेजस्वी अपने पुत्र अग्निवर्ण को राजतिलक करके स्वयं नैमिषारण्य क्षेत्र में चले गये ॥ १॥ तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशः । सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ २ ॥ तत्र नैमिषे तीर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्ण शालया सौधवासं विस्मृतो विस्मृतवान्सः। कर्तरि क्तः। फले स्वर्गादिफले निःस्पृहस्तपः संचि. काय संचितवान् ॥ अन्वयः-तत्र सलिलेन दीपिकाः, अन्तरितभूमिभिः कुशः तल्पम् , उटजेन सौधवासं विस्मृतः सः फलनिःस्पृहः तपः संचिकाय ।

Loading...

Page Navigation
1 ... 1333 1334 1335 1336 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412