________________
एकोनविंशः सर्गः।
मनसो मम संसारबन्धमुच्छेत्तुमिच्छतः ।
रामचन्द्रपदाम्भोजयुगलं निगडायताम् ॥ अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥१॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥
अन्वयः-श्रुतवताम् अपश्चिमः वशी राववः पश्चिमे वयसि स्वे पदे, अग्नितेजसं तनयम् अग्निवर्णम् अभिषिच्य नैमिषं शिश्रिये।
व्याख्या-श्रुतं = शास्त्रमस्ति येषां ते श्रुतवन्तस्तेषां श्रतवतां = विदुषाम् न पश्चिमः = नान्तिमः इति अपश्चिमः = प्रथमः वशोऽस्यास्तीति वशी = जितेन्द्रियः राघवः =राजा सुदर्शनः पश्चिमे अन्तिमे वार्धक्ये वयसि = अवस्थायां स्वे पदे = निजस्थाने स्वीयराज्यासने-इत्यर्थः अग्निः = वह्निरिव तेजः = प्रतापो यस्य स तम् अग्नितेजसम् तनयं = पुत्रम् अग्ने इव वर्णः यस्य स तम् अग्निवर्णम् = अग्निवर्णनामकम् अभिषिच्य =राज्याभिषेकं कृत्वा निमिषान्तरमात्रेण निहत. मासुरं बलं यत्र तत् नैमिष = नैमिषारण्यक्षेत्रं = शिश्रिये श्रितवान्। तपसे नैमिषारण्यं गत इत्यर्थः ।
समासः-न पश्चिमः अपश्चिमः। अग्नेरिव वर्णः यस्य सः अग्निवर्णः अग्निना तुल्यं तेजो यस्य सः अग्नितेजास्तम् अग्नितेजसम् ।।
हिन्दी-विद्वानों में प्रथम ( श्रेष्ठ ) जितेन्द्रिय, रघु के कुल में उत्पन्न राजा सुदर्शन, वृद्धावस्था के आनेपर ( बुढ़ौती में ) अपने स्थान पर अग्नि के समान तेजस्वी अपने पुत्र अग्निवर्ण को राजतिलक करके स्वयं नैमिषारण्य क्षेत्र में चले गये ॥ १॥
तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशः ।
सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ २ ॥ तत्र नैमिषे तीर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्ण शालया सौधवासं विस्मृतो विस्मृतवान्सः। कर्तरि क्तः। फले स्वर्गादिफले निःस्पृहस्तपः संचि. काय संचितवान् ॥
अन्वयः-तत्र सलिलेन दीपिकाः, अन्तरितभूमिभिः कुशः तल्पम् , उटजेन सौधवासं विस्मृतः सः फलनिःस्पृहः तपः संचिकाय ।