________________
रघुवंशे
व्याख्या--तत्र = नैमिषारण्यतीथें तीर्थस्य = पवित्रक्षेत्रस्य सलिलं = जलं तेन तीर्थसलिलेन दीर्घा एव दीर्घिकाः= वापोः, अन्तरिता=आच्छादिता भूमिः = पृथिवी यैस्तैः अन्तरितभूमिभिः कुशैः = द|ः तल्पं = शय्याम् उटेभ्यः = तृणपर्णादिभ्यः जातः उटजस्तेन उटजेन = पर्णशालया सौधे = राजभवने वासः= निवासस्तं सौधवासं विस्मृतः = विस्मृतवान् सः = राजा सुदर्शनः फले = स्वर्गादिफले निःस्पृहः = निरभिलाषः इति फलनिःस्पृहः तपः = पुण्यं संचिकाय = संचितवान्।
समासः-तीर्थस्य सलिलं तीर्थसलिलं तेन तीर्थसलिलेन । अन्तरिता भमिः यैस्तैः अन्तरितभूमिभिः। निर्गता स्पृहा यस्य स निःस्पृहः, फले निःस्पृहः इति फलनिःस्पृहः । सौधे वासः सौधवासस्तं सौधवासम् ।
हिन्दीनैमिषारण्य में सुदर्शन, तीर्थ के जल से राजभवन की बावलियों को, और जमीन पर बिछाई गई कुशाओं से पलंग को, तथा घास फूस की बनी कुटिया से राजमहल को भूलकर और स्वर्गादि फल की इच्छा को त्यागकर तप करने लग गये। अर्थात् तपोवन की सामग्री के आगे राजभवन की सामग्री को भुलाकर मोक्ष साधन में जुट गये ॥ २ ॥
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी।
मोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥ ३ ॥ तत्सुतः सुदर्शनपुत्रोऽग्निवों लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप । अक्लोनापालयदित्यर्थः। कुतः। हि यस्माद्भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता। प्रसाधयितुं न । प्रसाधनं कण्टकशोधनम् । अलंकृतिव॑न्यते । तथा च यथालंकृता युवतिः केवलमुपभुज्यते तद्वदिति भावः ॥
अन्वयः-तत्सुतः लब्धपालनविधौ खेदं न आप हि-भुजनिजितद्विषा गुरुणा मेदिनी अस्य भोक्तुम् एव कल्पिता, न प्रसाधयितुम् ।
व्याख्या-तस्य = सुदर्शनस्य सुतः = आत्मजः, तत्सुतः = अग्निवर्णः लब्धस्य = प्राप्तस्यराज्यस्य पालनं = रक्षणं तस्य विधिः = विधानं तस्मिन् लब्धपालनविधौ =रक्षाकर्मणीत्यर्थः । खेदं श्रमं न आप =न प्राप्तवान् । हि = यस्मात् कारणात् भुजाभ्यां = बाहुभ्यां निर्जिताः= पराजिताः द्विषः = शत्रवो येन स तेन भुजनिर्जितद्विषा गुरुणा = पित्रा-सुदर्शनेन मेदिनी = वसुन्धरा अस्य = अग्निवर्णस्य भोक्तुम् = उपभोगं कर्तुम् एव कल्पिता =संरचिता प्रसाधयितुं = कण्टकान् शोधयितुं न= नहि। एवं च यथा-प्रसाधिताभरणादिना तरुणी केवलमुपभुज्यते तद्वदिति भावः ।
समासः-लब्धस्य पालनमिति लब्धपालनं तस्य विधिस्तस्मिन् लब्धपालनविधौ । भुजाभ्यां निर्जिताः द्विषः येन स तेन भुजनिर्जितद्विषा।
हिन्दी-राजा सुदर्शन के पुत्र अग्निवर्ण को, पिता से प्राप्त राज्य के पालन रक्षण करने