________________
४६३
एकोनविंशः सर्गः में किसी प्रकार का भी कष्ट ( कठिनता ) नहीं उठाना पड़ा। क्योंकि अपने बाहुबल से शत्रुओं को परास्त करनेवाले पिता सुदर्शन ने पृथिवी को निष्कण्टक बनाकर केवल अग्निवर्ण को भोग भोगने के लिये ही राज्य दिया था, न कि शत्रुओं को मार कर सजाने के लिए ॥ ३ ॥ . सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः।
संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥ ४ ॥ ' अभिकः कामुकः 'अनुकामिकाभीकः कमिता' इति निपातः। 'कम्रः कामयिताभीकः कमनः कामनोऽभिकः' इत्यमरः। सोऽग्निवर्णः कुलोचितमधिकार प्रजापालनं काश्चन समाः कतिचिद्वत्सरान्स्वयमवर्तयदकरोत् । अतः परं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत् । स्त्रयासक्तोऽभूदित्यर्थः ॥
अन्वयः--अभिकः सः कुलोचितम् अधिकारं काश्चन समाः स्वयम् अवर्तयत् अतः परं सचिवेषु सन्निवेश्य स्त्रीविधेयनवयौवनः अभवत् ।
व्याख्या-अभिकामयते इति अभिकः = कामी सः = अग्निवर्णः कुले =रघुवंशे उचितम् योग्यमिति कुलोचितं, कुलस्य वा उचितमिति कुलोचितं, कुलक्रमागतमित्यर्थः अधिकारं = प्रजापालरूपं काश्चन समन्ति = विकलयन्ति भावान्, इति समा स्ताः । समाः-संवत्सरान् स्वयम् = आत्मना अवर्तयत् = कृतवान् । अतः परं = अनन्तरं सचिवेषु = अमात्येषु संनिवेश्य = निधाय राज्यभारं समर्प्य स्त्रीणां = कामिनीनां विधेयं = वश्यम् अधीनं नवं = नूतनं यौवनं = तारुण्यं यस्य स स्त्रीविधेयनवयौवनः= स्त्रैण इत्यर्थः । अभवत् = अभूत् जातः ।
समासः-स्त्रीणां विधेयं नवं यौवनं यस्य स स्त्रीविधेयनवयौवनः। कुले-कुलस्य वा उचित इति कुलोचितः, तम् ।
हिन्दी-"पिता से निरंकुश, निर्विघ्नराज्य मिलने से" कामी राजा अग्निवर्ण ने कुछ वर्षों तक तो स्वयं अपने कुलोचित प्रजा का पालन-रक्षण किया। और इसके पश्चात् मंत्रियों के ऊपर राज्यभार सौंपकर अपनी नई जवानी को स्त्रियों के अधीन कर दिया । अर्थात् स्त्रैण एवं विलासी होकर रंगरंगेलियों में ही मस्त हो गया ॥ ४ ॥
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ ५ ॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकद्धिः पूर्वस्मादधिकसंभार उत्तर उत्सवः। ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत् । उत्तरमुत्तरमधिका तस्योत्सवपरम्परा वृत्तेत्यर्थः ॥
अन्वयः-कामिनीसहचरस्य कामिनः तस्य मृदंगनादिषु वेश्मसु अधिकद्धिः उत्तरः उत्सवः ऋद्धिमन्तं पूर्वम् उत्सवम् अपोहत् ।