________________
रघुवंशे
व्याख्या - भूयान् काम: आसामस्तीति कामिन्यः । कामिनीभिः = अंगनाभिः सह चरतीति कामिनीसहचरः भूयान् कामोऽस्यास्तीति कामी तस्य कामिनः = कामुकस्य तस्य = - अग्निवर्णस्य मृद्यते इति मृदंगः मृत् अंगमस्येति वा मृदंग : = मुरजः तस्य नादः = घोषः अस्ति येषु तानि तेषु मृदंगनादिषु = मुरजघोषवत्सु वेश्मसु = भवनेषु अधिका= प्रचुरा ऋद्धिः = समृद्धिः सम्भारः यस्मिन् सः अधिकर्द्धिः उत्तरः = उत्तरस्मिन् काले भवः उत्सवः = उद्धवः -क्षणः ऋद्धिः समृद्धिरस्ति यस्य स तम् ऋद्धिमन्तं = साधनसम्पन्नं पूर्वम् - प्रथमम् उत्सवं = क्षणम् अपोहत् = अपानुदत् अधश्चकार । पूर्वस्मात् उत्तरोत्तर: उत्सव अधिकानन्दकरो जातः ।
४६४
समासः - कामिनीनां सहचरः इति कामिनीसहचरः । अधिका ऋद्धिः यस्य सः अधिकद्धिः । मृदंगानां नादः मृदंगनादः सोऽस्ति येषु तानि तेषु मृदंगनादिषु ।
हिन्दी - सुन्दरियों के साथी कामी उस राजा अग्निवर्ण के उन भवनों में, जिनमें निरन्तर मृदंग बजती रहती थी, विशिष्ट तैयारी वाले उत्सव ( नाच-गाना-बजानारूप ) ने बड़े-बड़े साधन वाले पहले के उत्सवों को फीका कर दिया। अर्थात् एक से एक बढ़कर उत्सव तेथे ॥ ५ ॥
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् ।
अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ ६ ॥
इन्द्रियार्थ परिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णों दिवानिशमन्तरेव विहरन्समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥ अन्वयः - इन्द्रियार्थपरिशून्यम् एकम् अपि क्षणान्तरं सोढुम् अक्षमः सः दिवानिशम् अन्तः एव विहरन् समुत्सुकाः प्रजाः न व्यपेक्षत ।
व्याख्या - इन्द्रियाणां = चक्षुरादीनां अर्थाः = विषयाः, शब्दादयः इन्द्रियार्थास्तैः परिशून्यं = रहितमिति, इन्द्रियार्थपरिशून्यम् एकमपि अन्यः क्षणः क्षणान्तरं तत् क्षणान्तरं = निमेषम् सोढुं = सहनं कर्तुम् न क्षमः अक्षमः = असमर्थः सः अग्निवर्णः दिवा च निशा च दिवानिशम् = रात्रिन्दिवम् अन्तः = अन्तपुरे एव विहरन् = विहारं कुर्वन् सम्यगुत्सुका = दर्शनार्थमुत्कण्ठिताः = दर्शनाभिलाषिणीः इत्यर्थः । प्रजाः = जनान् न व्यपैक्षत = नापेक्षितवान् । दर्शनमपि न दत्तवानित्यर्थः ।
समासः - इन्द्रियाणाम् अर्थाः इन्द्रियार्थास्तैः परिशून्यम् इन्द्रियार्थपरिशून्यम् तत् । न क्षमः अक्षमः । दिवा च निशा च दिवानिशम् । अन्यः क्षणः क्षणान्तरम् तत् ।
हिन्दी- - राजा अग्निवर्ण इतना विलासी था कि- भोगविलास से रहित एक क्षण भी वह नहीं रह सकता था । इसलिये दिन रात रानियों के महल में हो विहार करता था । और