Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरमिनयातिलविनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १४ ॥ ___ कृती कुशलः स्वयं प्रहतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि च यस्य स तथोक्तो मनो हरन् नर्तकीनामिति शेषः। सोऽग्निवर्णोऽभिनयातिलधिनीः । अभिनयेषु स्खलन्तीरित्यर्थः। नर्तकीविलासिनीः। 'शिल्पिनि वुन्' इति वुन्प्रत्ययः । 'षिद्गौरादिभ्यश्च' इति ङीष् । 'नर्तकीलासिके समे' इत्यमरः। गुरुषु नाट्याचार्येषु पार्श्ववतिषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ॥
अन्वयः—कृती स्वयं प्रहतपुष्करः लोलमाल्यवलयः मनः हरन् सः, अभिनयातिलंधिनीः नर्तकीः गुरुषु पार्श्ववर्तिषु सत्सु अलज्जयत् ।
व्याख्या कृतमनेनेति कृती = योग्यः-पण्डितः "कृती पण्डिते योग्ये" इति हैमः । स्वयं = स्वेन पुष्णाति, पुष्यते पुष्कर, प्रहतं = वादितं पुष्करं = तूर्यवक्त्रं येन स प्रहतपुष्करः= ताडितवाद्यमुख इत्यथः । “पुष्करं तूर्यवक्त्रे च काण्डे खड्गफलेऽपि च" इति विश्वः । लोलानि = चञ्चलानि माल्यानि = पुष्पमालाः वलयानि = कंकणानि च यस्य स लोलमाल्यवलयः, मनः = चित्तं हरन् , नर्तकीनां चित्तं वशीकुर्वन् , इत्यर्थः। सः = अग्निवर्णः, अतिलंधितुं शीलं यासां ताः अतिलंधिन्यः। अभिनयेषु = भावादिव्यञ्जकेषु अतिलंधिनीः= स्खलन्तीः, इति अभिनयातिलंधिनीः नत्यन्ति, गात्रविक्षेपं कुर्वन्तीति नर्तक्यस्ताः नर्तकीः=लासिकाः विलसिनीः गुरुषु = नाट्यशिक्षकेषु पार्वे = समीपे वर्तन्ते तच्छीलाः पार्श्ववर्तिनस्तेषु पार्श्ववर्तिषु समीपस्थेषु सत्सु एवेत्यर्थः । अलज्जयत् = लज्जाम् अगमयत् ।
समासः-प्रहृतं पुष्करं येन स प्रहृतपुष्करः। लोलानि माल्यानि वलयानि च यस्य स लोलमाल्यवलयः। अभिनयेषु अतिलंघिन्यस्ताः अभिनयातिलंधिनीः। पारवें वर्तिनस्तेषु पार्श्ववर्तिषु ।
हिन्दी-नर्तकियों के नाचने के समय' राजा अग्निवर्ण स्वयं बाजा मृदंग और तबला बजाता था। उस समय उसके गले की माला और हाथ का कंकण हिलने लगते थे, तो नाचने वालियों के मन का हरण करने वाला वह राजा, अभिनय में ( नाचने में ) अतिक्रमण ( भूल ) करने वाली नर्तकियों को उनके उस्तादों के सामने हो लज्जित कर देता था। अर्थात् बाजा बजाते समय राजा इतना सुन्दर लगता था कि उसे देख नाचने वाली अपना मन उसे देकर नाचने में गलती कर बैठती थी, अतः गुरु के सामने लजा जाती थी ॥ १४ ॥
चारु नृत्यविगमे च तन्मुखं स्वेदमिन्नतिलक परिश्रमात् ।
प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५ ॥ किंच। चारु सुन्दरं नत्यविगमे लास्यावसाने परिश्रमान्नर्तनप्रयासात्स्वेदेन भिन्नतिलक विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रवर्तितमुखमारुतः पिबन् । अमराणा