Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
एकोनविंशः सर्गः
४८१
समय हाथ पकड़ लेती थीं । अर्थात् (नीवी, साड़ी की गांठ खोलते समय ) इस प्रकार सम्भोग के समय राजा की इच्छाओं की सब तरफ में बाधा होने पर भी उसका काम और बढ़ जाता था। चुम्बन के ये स्थान हैं यथा-'मुखे स्तने ललाटे च कण्ठे च नेत्रयोरपि । गण्डे ( कपोल) च कर्णयोश्चैव कक्षोरुभगमूर्द्धसु' ।। २७ ॥
दर्पणेषु परिभोगदर्शिनीनर्मपूर्वमनुपृष्ठसंस्थितः ।
छायया स्मितमनोज्ञया वधूहीनिमीलितमुखीश्चकार सः ॥ २८ ॥ सोऽग्निवणों दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीधूनम पूर्व परिहासपूर्वमनुपृष्ठं तासां/ पृष्ठभागे संस्थितः सन् । स्मितेन मनोशया छायया दर्पणगतेन स्वप्रतिबिम्बेन होनिमीलितमुखीर्लज्जावनतमुखीश्चकार । तमागतं दृष्ट्वा लज्जिता इत्यर्थः।
अन्वयः-सः दर्पणेषु परिभोगदर्शिनीः वधूः नर्मपूर्वम् अनुपृष्ठसंस्थितः सन् स्मितमनोशया छायया हीनिमीलितमुखीः चकार ।
व्याख्या-सः अग्निवर्णः दर्पयन्ति = हर्षयन्ति, मोहयन्ति वा दर्पणास्तेषु दर्पणेषु = आदशेंषु परिभोग = सम्भोगचिह्न पश्यन्ति = अवलोकयन्तीति परिभोगदर्शिन्यस्ताः परिभोगदर्शिनीः वधूः = स्त्रीः नर्म = परिहासः पूर्व यस्मिन् तत् नर्मपूर्व यथा तथा पृष्ठस्य पश्चात् अनुपृष्ठं = स्त्रीणां पृष्ठभागे संस्थितः = वर्तमानः सः अनुपृष्ठसंस्थितः सन् स्मितेन = हास्येन मनोज्ञा =मनोहरा इति स्मितमनोज्ञा तया स्मितमनोज्ञया छायया = प्रतिबिम्बेन = दर्पणगतस्वप्रतिबिम्बेनेत्यर्थः । हिया = लज्जया निमीलितानि = अवनतानि = नम्रीभूतानीत्यर्थः । मुखानि आननानि यासां ताः ह्रीनिमीलितमुख्यस्ताः ह्रीनिमीलितमुखीः चकार = कृतवान् । एवं भूतमग्निवर्ण दृष्ट्वा लज्जया अधोमुख्यः जाताः इत्यर्थः।
समासः–परिभोगान् पश्यन्तीति परिभोगदर्शिन्यः, ताः। नर्म पूर्व यस्मिन् तत् नर्मपूर्वम् । पृष्ठस्य पश्चात् अनुपृष्ठं संस्थितः इति अनुपृष्ठसंस्थितः। स्मितेन मनोशा, तया स्मितमनोशया। ह्रिया निमोलितानि मुखानि यासां ताः ह्रीनिमीलितमुख्यस्ताः ह्रीनिमीलितमुखीः।
हिन्दी-जब स्त्रियाँ शीशों में ( सामने खड़ी होकर ) अपने सम्भोग के चिह्नों को (नखक्षत व दन्तक्षत ) देखती थीं तो, उनकी पीठ के पीछे चुपचाप खड़े होकर हँसते हुए वह राजा मुसकुराने से सुन्दर अपनी छाया अर्थात् सामने शीशे में पड़े अपने हँसते हुए प्रतिबिम्ब से, उन स्त्रियों को लज्जा से नीचे की ओर मुखवाली कर देता था। अर्थात् इस अवस्था में राजा को देख कर वे शरमा जाती थीं ॥ २८॥
कण्ठसक्तमृदुबाहुबन्धनं न्यस्तपादतलमग्रपादयोः।
प्रार्थयन्त शयनोत्थितं प्रियास्तं निशात्ययविसर्गचुम्बनम् ॥ २९ ॥ प्रियाः शयनादुत्थितं तमग्निवर्ण कण्ठसक्तं कण्ठापितं मृदु बाहुबन्धनं यस्मिस्तत् । अग्र