Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
________________
रघुवंशे
पादयोः स्वकोययोय॑स्ते पादतले यस्मिंस्तत् । निशात्यये विसगों विसृज्य गमनं तत्र यच्चुम्बनं तत्प्रार्थयन्त । 'दुधाच्-' इत्यादिना द्विकर्मकत्वम् । अत्र गोनर्दीयः-‘रतावसाने यदि चुम्बनादि प्रयुज्य यायान्मदनोऽस्य वासः' इति ॥ __अन्वयः-प्रियाः शयनोत्थितं कण्ठसक्तमृदुबाहुबन्धनम् अग्रपादयोः न्यस्तपादतलं निशात्ययविसर्गचुम्बनं प्रार्थयन्त ।
व्याख्या-प्रीणन्तीति प्रियाः = वल्लभाः शयनात् = शय्यायाः उत्थितः= इति शयनोत्थितस्तं शयनोत्थितं-निद्रां विहाय पर्यकादुत्थितमित्यर्थः । तम् = राजानम्-अग्निवर्ण बाहुभ्यां = भुजाभ्यां बन्धनं = वेष्टनमिति बाहुबन्धनं मृदु = कोमलं च तद् बाहुबन्धनमिति मृदुबाहुबन्धनं कण्ठे = गले सक्तम् = अपितं मृदुबाहुबन्धनं यस्मिन् तत् कण्ठसक्तमृदुबाहुबन्धनम् , अग्रौ= श्रेष्ठौ पादौ= चरणौ इति अग्रपादौ तयोः अग्रपादयोः-स्वीयचरणयोः न्यस्ते = स्थापिते पादयोः = चरणयोः तले यस्मिन् तत् न्यस्तपादतलम् = स्थापितचरणाधोभागम् । नितरां श्यति = तनूकरोति व्यापारान् इति निशा निशायाः = रात्रेः अत्ययः = अन्तः, निशात्ययः तस्मिन् विसर्गः = त्यागः प्रियाः परित्यज्य गमनमित्यर्थः । तत्र निशात्ययविसर्गे यत् चुम्बनं-मुखसंयोगः इति निशात्ययविसर्गचुम्बनं तत् प्रार्थयन्त =प्रार्थयन्ति स्म । चौरादिकार्थधातोः लङः रूपमिदम् प्रार्थयन्त इति।
समासः-शयनात् उत्थितस्तं शयनोत्थितम् । अग्रौ च तौ पादौ अग्रपादौ तयोः अग्रपादयोः। न्यस्ते पादयोः तले यस्मिन् तत् न्यस्तपादतलम् । बाहुभ्यां बन्धनमिति बाहुबन्धनम् मृदु च तत् बाहुबन्धनमिति मृदुबाहुबन्धनम् , कण्ठे सक्तं मृदुबाहुबन्धनं यस्मिन् तत् कण्ठसक्तमृदुबाहुबन्धनम् , तत् । निशायाः अत्ययः निशात्ययः, तत्र विसर्गः इति निशात्ययविसर्गः, तत्र यत् चुम्बनमिति, तत् निशात्ययविसर्गचुम्बनम् ।
हिन्दी-प्रातःकाल ( जाते समय ) पलंग से उठे, राजा अग्निवर्ण से उनकी स्त्रियाँ प्रार्थना करती थीं, कि गले में कोमल बाहुपाश डाले हुए, और अपने पैर के पंजों पर पैर के तलवे रखकर रात की समाप्ति ( बीत जाने ) पर बाहर जाते समय चुम्बन देते हुए बिदाई लेता जाये तो ठीक है ॥ २९ ॥
प्रेक्ष्य दर्पणतलस्थमात्मनो राजवेषमतिशक्रशोमिनम् ।
पिप्रिये न स तथा यथा युवा व्यक्तलक्ष्म परिभोगमण्डनम् ॥ ३० ॥ युवा सोऽग्निवर्णोऽतिशक्रं यथा तथा शोभमानमतिशकशोभिनं दर्पणतलस्थं दर्पणसंक्रान्तमात्मनो राजवेषं प्रेक्ष्य तथा न पिप्रिये न तुतोष यथा व्यक्तलक्ष्म प्रकटचिह्न परिभोगमण्डनं प्रेक्ष्य पिप्रिये ॥
अन्वयः-युवा सः अतिशक्रशोभिनं दर्पणतलस्थम् आत्मनः राजवेषम् प्रेक्ष्य तथा न पिप्रिये, यथा व्यक्तलक्ष्म परिभोगमण्डनं प्रेक्ष्य पिप्रिये।
Page Navigation
1 ... 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412