Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
एकोनविंशः सर्गः
४६९ इति आसवः, मुखस्य = आननस्य आसवः = मद्यमि ते मुखासत्रस्तं मुखासवं = मुखनिर्गतं मयम् अपिबत् = पीतवान् ।
समासः-अतिरेकेण सहितः सातिरेकः, सातिरेकश्चासौ मदः सातिरेकमदः, तस्य कारणमिति सातिरेकमदकारणम् तत् । मुखस्य आसवस्तं मुखासवम् । बकुलेन तुल्यं दोहदमस्य स बकुलतुल्यदोहदः।
हिन्दी-उन सुन्दरियों ने एकान्त में, खूब कामोद्दीपक ( मदकारी ) तथा अग्निवर्ण की दी हुई मुख की जूठी शराब की प्रेमपूर्वक चाह की थी। अर्थात् बड़े प्रेम से पी थी। तथा मौलसरी के वृक्ष के समान अभिलाषा वाला अग्निवर्ण भी उन सुन्दरियों से दी हुई उनके मुख की जूठी मदिरा को पीता था ॥ १२ ॥
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे।
वल्लकी च हृदयंगमस्वना वल्गुवागपि च वामलोचना ॥ १३ ॥ अङ्कपरिवर्तनोचिते उत्सङ्गविहाराहें उभे तस्याग्निवर्णस्याङ्कमशून्यतां पूर्णतां निन्यतुः । के उमे। हृदयंगमस्वना मनोहरध्वनिवल्लकी वीणा च । वल्गुवाङमधुरभाषिणी वामलोचना कामिन्यपि च । हृदयं गच्छतीति हृदयंगमः। खप्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः । अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः ।।
अन्वयः-अङ्कपरिवर्तनोचिते उमे तस्य अङ्कम् अशून्यतां निन्यतुः 'के उमे' हृदयंगमस्वना वल्लकी च वल्गुवाग वामलोचना अपि च ।
व्याख्या अंके = क्रोडे = उत्संगे परिवर्तनं = विहरणम् उपवेशनमित्यर्थः इति अंकपरिवर्तनं तत्र उचिते-योग्ये इति अंकपरिर्तनोचिते उमे = द्वे तस्य = अग्निवर्णस्य अंकम् = उत्संगम् न शून्यमिति अशून्यं तस्य भावः अशून्यता ताम् अशून्यताम् = पूर्णतां निन्यतुः- निन्यावेचक्रतुरित्यर्थः के उमे इत्याह हृदयं = चित्तं गच्छति =प्रविशतीति हृदयंगमः, हृदयंगमः = मनोहारी स्वनः = ध्वनिर्यस्याः सा हृदयंगमस्वना वल्लते इति वल्लकी= वीणा च वल्गुः = मधुरा वाक् = वाणो यस्याः सा वल्गुवाक् = मधुरभाषिणी वामे=सुन्दरे लोचने = नेत्रे यस्याः सा वामलोचना= सुनयनी मृगाक्षीत्यर्थः । सुन्दरी अपि च । जघनदेशोपनिवेशितया वीणया कामिन्या च वाद्यसंगीताभ्यामरमतेत्यर्थः। ___ समासः-अंके परिवर्तनमिति अंकपरिवर्तनम्, तत्र उचिते अंकपरिवर्तनोचिते । न शून्यता अशून्यता ताम् अशून्यताम् । हृदयंगमः स्वनः यस्याः सा हृदयंगमस्वना। वल्गु वाक् यस्याः सा वल्गुवाक् । वामे लोचने यस्याः सा वामलोचना।
हिन्दी-गोद में बैठने के योग्य उन दोनों ने राजा अग्निवर्ण की गोद सदा भरी रखी। अर्थात् ये दोनों उसके अगल बगल में सदा रहती थीं। हृदय को छूने वाले स्वर वाली वीणा ( मधुर स्वर वाली ) और मधुरभाषिणी, सुन्दर नेत्रवाली कामिनी। अर्थात् ये दो ही उसे सदा घेरे रहती थीं ॥ १३ ॥