Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass

Previous | Next

Page 1351
________________ एकोनविंशः सर्गः ४७७ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन् । क्लृप्तपुष्पशयनॉल्लतागृहानेत्यावरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तत्प्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत् । परिजनश्चासावङ्गना चेति विग्रहः। अत्र ङीबन्तस्यापि दूतीशव्दस्य छन्दोभङ्गभयाद्ह्रस्वत्वं कृतम् । 'अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेगिराम्' इत्युपदेशात् ॥ अन्वयः-सः दूतिकृतमार्गदर्शनः सन् क्लृप्तपुष्पशयनान् लतागृहान् एत्य, अवरोधभयवेपथूत्तरम् 'यथा स्यात्तथा' परिजनांगनारतम् अन्वभूत् । व्याख्या-सः=अग्निवर्णः दूतिभिः सञ्चारिकाभिः कृतं = विहितं मार्गस्य = अध्वनः दर्शनम् = अवलोकनं येन स दूतिकृतमार्गदर्शनः सन् क्लुप्तानि = निर्मितानि पुष्पाणां कुसुमानां शयनानि = शय्याः येषु ते तान् क्लुप्तपुष्पशयनान् लताभिः निर्मिताः गृहाः इति लतागृहाः = लताकुञ्जास्तान् लतागृहान् एत्य=आगत्य अवरुध्यते इति अवरोधः = अन्तःपुरम् तस्मात् भयं =भीतिरिति अवरोधभयं तेन यो वेपथुः = कम्पः, इति अवरोधभयवेपथुः, सः उत्तरं = प्रधानं यस्मिन् कर्मणि तत् यथा स्यात्तथा परिजनश्चासौ अङ्गना च इति परिजनांगना तस्याः रतं = सम्भोगः इति परिजनांगनारतं तत् , अन्वभूत्-दासीभिः सह सम्भोगं कृतवानित्यर्थः । समासः-दूतिभिः कृत मार्गस्य दर्शनं येन स दूतिकृतमार्गदर्शनः । क्लृप्तानि पुष्पाणां शयनानि येषु ते तान् क्लृप्तपुष्पशयनान् । लताभिः निर्मिताः गृहाः लतागृहास्तान् लतागृहान् । परिजनश्चासौ अङ्गना चेति परिजनांगना तस्या रतमिति परिजनांगनारतं तत् । अवरोधात् भयमिति अवरोधभयं तेन यो वेपथुरिति अवरोधवेपथुः, सः उत्तरं यस्मिन् कर्मणि तत् अवरोधभयवेपथूत्तरम्। हिन्दी-जब कभी राजा अग्निवर्ण दासी के द्वारा मार्ग दिखाये जानेपर, फूलों की बनी शय्या वाले लता घरों ( कुञ्जों ) में जाकर ( ये दासी महारानी से न कह दें इस डर से) रानियों के भय से थर-थर काँपते हुए, दासी के साथ सम्भोग करता था। अर्थात् दासी से सम्भोग करके उसे प्रसन्न करते थे। यतः वे शिकायत न करें। विशेष-दूती दीर्घ होता है। किन्तु यहाँ छन्द न बिगड़े अतः ह्रस्व माना है। प्राचीनों का कथन है कि माष को मष पढ़ लेना किन्तु छन्द नहीं बिगड़ने पावे इति ॥ २३ ॥ नाम वल्लभजनस्य ते मया प्राप्य माग्यमपि तस्य काझ्यते । लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ २४ ॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नानानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम् । तत्परिहासकारणमिति शेषः । तदपि काझ्यते । ननु बत मम मनो लोलुपं गृध्नु । इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः । 'गोत्रं नाम्नि कुले. ऽचले' इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्षिणो मम । अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ।। अन्वयः-मया ते वल्लभजनस्य नाम प्राप्य, तत्य भाग्यम् अपि काक्ष्यते । ननु लोलुपं मम मनः इति अङ्गनाः गोत्रविस्खलितं तम् ऊचुः ।

Loading...

Page Navigation
1 ... 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412