________________
एकोनविंशः सर्गः
४७७
सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन् । क्लृप्तपुष्पशयनॉल्लतागृहानेत्यावरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तत्प्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत् । परिजनश्चासावङ्गना चेति विग्रहः। अत्र ङीबन्तस्यापि दूतीशव्दस्य छन्दोभङ्गभयाद्ह्रस्वत्वं कृतम् । 'अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेगिराम्' इत्युपदेशात् ॥
अन्वयः-सः दूतिकृतमार्गदर्शनः सन् क्लृप्तपुष्पशयनान् लतागृहान् एत्य, अवरोधभयवेपथूत्तरम् 'यथा स्यात्तथा' परिजनांगनारतम् अन्वभूत् ।
व्याख्या-सः=अग्निवर्णः दूतिभिः सञ्चारिकाभिः कृतं = विहितं मार्गस्य = अध्वनः दर्शनम् = अवलोकनं येन स दूतिकृतमार्गदर्शनः सन् क्लुप्तानि = निर्मितानि पुष्पाणां कुसुमानां शयनानि = शय्याः येषु ते तान् क्लुप्तपुष्पशयनान् लताभिः निर्मिताः गृहाः इति लतागृहाः = लताकुञ्जास्तान् लतागृहान् एत्य=आगत्य अवरुध्यते इति अवरोधः = अन्तःपुरम् तस्मात् भयं =भीतिरिति अवरोधभयं तेन यो वेपथुः = कम्पः, इति अवरोधभयवेपथुः, सः उत्तरं = प्रधानं यस्मिन् कर्मणि तत् यथा स्यात्तथा परिजनश्चासौ अङ्गना च इति परिजनांगना तस्याः रतं = सम्भोगः इति परिजनांगनारतं तत् , अन्वभूत्-दासीभिः सह सम्भोगं कृतवानित्यर्थः ।
समासः-दूतिभिः कृत मार्गस्य दर्शनं येन स दूतिकृतमार्गदर्शनः । क्लृप्तानि पुष्पाणां शयनानि येषु ते तान् क्लृप्तपुष्पशयनान् । लताभिः निर्मिताः गृहाः लतागृहास्तान् लतागृहान् । परिजनश्चासौ अङ्गना चेति परिजनांगना तस्या रतमिति परिजनांगनारतं तत् । अवरोधात् भयमिति अवरोधभयं तेन यो वेपथुरिति अवरोधवेपथुः, सः उत्तरं यस्मिन् कर्मणि तत् अवरोधभयवेपथूत्तरम्।
हिन्दी-जब कभी राजा अग्निवर्ण दासी के द्वारा मार्ग दिखाये जानेपर, फूलों की बनी शय्या वाले लता घरों ( कुञ्जों ) में जाकर ( ये दासी महारानी से न कह दें इस डर से) रानियों के भय से थर-थर काँपते हुए, दासी के साथ सम्भोग करता था। अर्थात् दासी से सम्भोग करके उसे प्रसन्न करते थे। यतः वे शिकायत न करें।
विशेष-दूती दीर्घ होता है। किन्तु यहाँ छन्द न बिगड़े अतः ह्रस्व माना है। प्राचीनों का कथन है कि माष को मष पढ़ लेना किन्तु छन्द नहीं बिगड़ने पावे इति ॥ २३ ॥
नाम वल्लभजनस्य ते मया प्राप्य माग्यमपि तस्य काझ्यते ।
लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥ २४ ॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नानानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम् । तत्परिहासकारणमिति शेषः । तदपि काझ्यते । ननु बत मम मनो लोलुपं गृध्नु । इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः । 'गोत्रं नाम्नि कुले. ऽचले' इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्षिणो मम । अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ।।
अन्वयः-मया ते वल्लभजनस्य नाम प्राप्य, तत्य भाग्यम् अपि काक्ष्यते । ननु लोलुपं मम मनः इति अङ्गनाः गोत्रविस्खलितं तम् ऊचुः ।