Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
________________
एकोनविंशः सर्गः
उनके दर्शन चाहने वाली प्रजा की उपेक्षा करता था । अर्थात् प्रजा को दर्शन नहीं देता
था ॥ ६ ॥
३०
गौरवाद्यदपि जातु भन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ ७ ॥
४६५
जातु कदाचिन्मन्त्रिणां गौरवाद् गुरुत्वाद्धेतोः । मन्त्रिवचनानुरोधादित्यर्थः । प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम् । न तु मुखावलोकनप्रदानेनेत्यर्थः ॥
अन्वयः - जातु मन्त्रिणां गौरवात् प्रकृतिकांक्षितं यदपि दर्शनं ददौ तद् गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ।
9
व्याख्या—जातु = कदाचित् मन्त्रिणां = सचिवानां गुरोर्भावः गौरवम् तस्मात् गौरवात् = आदरात् हेतोः, अमात्यकथनादरादित्यर्थः । प्रकृतिभिः = प्रजाभिः कांक्षितम् = अभिलषितमिति प्रकृतिकांक्षितं यदपि = यद्यपि दर्शनं ददौ = दत्तवान् तद् अपि गवामक्षीव इति गवाक्षः, गावः = जालानि, किरणाः वा अक्षन्ति = व्याप्नुवन्ति एनम् अनेन वा गवाक्षः = वातायनं, गवाक्षस्य विवरं = छिद्रं तत्र अवलम्बते इति गवाक्षविवरावलम्बी तेन गवाक्षविवरावलम्बिना = वातायनच्छिद्रे लम्बमानेन केवलेन = एकाकिना चरणेन पादेन कल्पितं = सम्पादितम् । कोमलेन उत्पलसदृशेन चरणेनैव दर्शनं सम्पादितं न तु मुखारविन्ददर्शनप्रदानेनेत्यर्थः ।
समासः—प्रकृतिभिः कांक्षितमिति प्रकृतिकांक्षितम्, तत् । गवाक्षस्य विवरमिति गवाक्षविवरम्, गवाक्षविवरे अवलम्बी, तेन गवाक्षविवरावलम्बिना ।
हिन्दी - राजा अग्निवर्ण यदि कभी मंत्रियों के अनुरोध करने पर उनके आदरवश प्रजा - जनों से अभिलषित दर्शन देता था तो केवल झरोखे से बाहर लटकते हुए पैर से दर्शन देता था । अर्थात् खिड़की से पैर लटका कर चरण का दर्शन कराता था, मुख का दर्शन कभी भी प्रजा को नहीं होता था ॥ ७ ॥
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८ ॥
कोमलेन मृदुलेनात्मनखानां रागेणारुण्येन रूषितं छुरितम् । अत एव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम् । तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे ॥
अन्वयः - कोमलात्मनखरागरूषितम् ' अत एव ' नवदिवाकरातपस्पृष्टपंकजलाधिरोहणम् तम् अनुजीविनः कृतप्रणतयः सन्तः भेजिरे ।
व्याख्या– आत्मनः = स्वस्य नखाः = कररुहाः, इति आत्मनखाः, तेषां रागः = लोहितवर्णः,
Page Navigation
1 ... 1337 1338 1339 1340 1341 1342 1343 1344 1345 1346 1347 1348 1349 1350 1351 1352 1353 1354 1355 1356 1357 1358 1359 1360 1361 1362 1363 1364 1365 1366 1367 1368 1369 1370 1371 1372 1373 1374 1375 1376 1377 1378 1379 1380 1381 1382 1383 1384 1385 1386 1387 1388 1389 1390 1391 1392 1393 1394 1395 1396 1397 1398 1399 1400 1401 1402 1403 1404 1405 1406 1407 1408 1409 1410 1411 1412