________________
४३०
रघुवंशे
समाराधनं समाराधने = सेवायां तत्परः= संलग्नः तेन समाराधनतत्परेण = शुश्रूषासंलग्नेनेत्यर्थः ।' तेन पुत्रेण = देवानीकेन यथा=यादृशः एव पुन्नाम्नो नरकात् त्रायते इति पुत्रः। पुत्रोऽस्यास्तीति पुत्री =पुत्रवान् बभूव = जातः। तथा = तादृशः एव सः पुत्रः = देवानीकः आत्मनः = देहात् जातः आत्मजः। आत्मजः = पुत्रः वत्सलः स्निग्धः यस्य स तेन आत्मजवत्सलेन तेन पित्रा = क्षेमधन्वना पिता अस्ति यस्य स पितृमान् जनकवान् बभूव = जातः। अनयोरेव पितृत्वं पुत्रत्वं च सफलमासीदित्यर्थः । यथा पुत्रः पितृभक्तः, तथैव पितापि पुत्रवात्सल्यमूर्तिरिति भावः ।
हिन्दी-जिस प्रकार सेवा शुश्रूषा में सदा तत्पर पितृभक्त देवानीक पुत्र को पाकर क्षेमधन्वा पुत्रवान् हुआ, उसी प्रकार अपने पुत्र से प्यार करने वाले उस क्षेमधन्वा पिता को पाकर देवानीक भी पितावाला हुआ था। अर्थात् इन दोनों पिता पुत्र में ही पितापना और पुत्रपना सम्पूर्ण रूप से सफल हुआ ॥ ११ ॥
पूर्वस्तयोरात्मसमे चिरोटामात्मोद्भवे वर्णचतुष्टयस्य ।
धुरं निधायैकनिधिर्गुणानां जगाम यज्वा यजमानलोकम् ॥ १२ ॥ गुणानामेकनिधिर्यज्वा विधिवदिष्टवांस्तयोः पितृपुत्रयोर्मध्ये पूर्वः पिता क्षेमधन्वात्मसमे स्वतुल्य आत्मोद्भवे पुत्रे देवानीके चिरोढां चिरधृतां वर्णचतुष्टयस्य धुरं रक्षाभारं निधाय यजमानलोकं यष्ट्रलोकं नाकं जगाम ॥
अन्वमः-गुणानां एकनिधिः यज्वा तयोः पूर्वः आत्मसमे आत्मोद्भवे चिरोढां वर्णचतुष्टयस्य धुरं निधाय यजमानलोकं जगाम । __व्याख्या-गुणानां = दयादाक्षिण्यशौर्यादीनाम् एकः = अद्वितीयश्चासौ निधिः = शेवधिः इति एकनिधिः = मुख्याकरः इति यावत् । यजतेस्म इति यज्वा = विधिनेष्टवान् तयोः =पितृपुत्रयोः मध्ये पूर्वः = प्रथमः पिता क्षेमधन्वा आत्मनः = स्वस्य समः= तुल्यः तस्मिन् आत्मसमे आत्मनः = स्वस्मात् उद्भवति =जायते इति आत्मोद्भवस्तस्मिन् आत्मोद्भवे = सुते चिरं = बहुकालम् ऊढा = धृता तां चिरोढां चत्वारोऽवयवाः यस्य तत् चतुष्टयं, वर्णानां = ब्राह्मणादीनां चतुष्टयमिति वर्णचतुष्टयं तस्य वर्णचतुष्टयस्य धुरं =भारं प्रजारक्षणपालनरूपमित्यर्थः निधाय दत्त्वा यजते इति यजमानः । यजमानस्य = यष्टुः लोकः=भुवनमिति तं यजमानलोकं = स्वर्गलोकं जगाम = गतवान् ।
समासः-आत्मनः समः आत्मसमस्तस्मिन् आत्मसमे। आत्मनः उद्भवः आत्मोद्भवस्तस्मिन् आत्मोद्भवे । वर्णानां चतुष्टयं तस्य वर्णचतुष्टयस्य । एकश्चासौ निधिः एकनिधिः ।
हिन्दी-गुणों की खान, विधिपूर्वक यज्ञ करने वाला, दोनों ( पितापुत्र ) में पहला (क्षेमधन्वा ), अपने ही समान योग्य समर्थ अपने पुत्र पर चारों वर्गों को रक्षा पालन का भार जिसे वह बहुत दिनों से ढो रहा था, सौंप कर यज्ञ करने वालों के लोक स्वर्ग में चला गया ॥१२॥