________________
अष्टादशः सर्गः
४२९
हिन्दी-सफल धनुर्धारी उस पुण्डरीक ने, प्रजाओं का कल्याण करने में चतुर समर्थ तथा शान्त स्वभाव वाले क्षेमधन्वा नामक अपने पुत्र को पृथिवी ( राज्य ) दे कर स्वयं अतीव सहनशील होकर तप करने के लिये तपोवन चले गए ॥ ९॥
अनीकिनीनां समरेऽग्रयायी तस्यापि देवप्रतिमः सुतोऽभूत् ।
व्यश्रयतानीकपदावसानं देवादि नाम त्रिदिवेऽपि यस्य ॥ १० ॥ तस्य क्षेमधन्वनोऽपि समरेऽनीकिनीनां चमूनामग्रयायी देवप्रतिम इन्द्रादिकल्पः सुतोऽभूत् । अनीकपदावसानमनीकशब्दान्तं देवादि देवशब्द वं यस्य नाम देवानीक इति नामधेयं त्रिदिवे स्वर्गेऽपि व्यश्रूयत विश्रुतम् ॥
अन्वयः-तस्य अपि समरे अनीकिनीनाम् अग्रयायी देवप्रतिमः सुतः अभूत् । अनीकपदावसानं देवादि यस्य नाम त्रिदिवे अपि व्यश्रूयत।
व्याख्या-तस्य =क्षेमधन्वनः अपि समरे = युद्धस्थले अनीकं =रणोऽस्ति प्रयोजनत्वेन यासां ताः अनीकिन्यः तासाम् अनीकिनीनां=सेनानाम् अग्रे = पुरः यातीति अग्रयायी = पुरःसरः प्रतिमातीति प्रतिमः । देवानाम् = इन्द्रादीनां प्रतिमः= तुल्यः इति देवप्रतिमः सुतः= पुत्रः अभूत् = जातः। अनीकं पदम् अवसाने = अन्ते यस्य तत् अनीकपदावसानं देवः आदियस्य तत् देवादि, देवपूर्वम् अनीकान्तं यस्य सुतस्य नाम = आख्या संज्ञा देवानीकः इति नाम तिसृषु अवस्थासु, त्रयः = ब्रह्मविष्णुरुद्रा वा दीव्यन्त्यत्र त्रिदिवः, तस्मिन् त्रिदिवेऽपि = स्वर्गेऽपि व्यश्रूयत=विशेषेण श्रुतम् ।
समासः-देवानां प्रतिमः देवप्रतिमः। अनीकमिति पदम् अवसाने यस्य तत् अनीकपदावसानम् देवः आदिर्यस्य तत् देवादि ।
हिन्दी-उस क्षेमधन्वा को भी, युद्ध में सेना के आगे आगे चलने वाला, तथा देवेन्द्र के समान ( बलशाली ) पुत्र उत्पन्न हुआ। जिसका कि-देव प्रथम और अनीक अन्त में अर्थात् देवानीक नाम स्वर्ग में भी विशेष रूप से सुना जाता था। स्वर्ग में भी प्रसिद्ध था ॥ १० ॥
पिता समाराधनतत्परेण पुत्रेण पुत्री स यथैव तेन ।
पुत्रस्तथैवात्सजवत्सलेन स तेन पित्रा पितृमान्बभूव ॥ ११ ॥ स पिता क्षेमधन्वा समाराधनतत्परेण शुश्रूषापरेण तेन पुत्रेण यथैव पुत्री बभूव तथैव स पुत्रो देवानीक आत्मजवत्सलेन तेन पित्रा पितृमान्बभूव । लोके पितृत्वपुत्रत्वयोः फलमनयोरेवासीदित्यर्थः ॥
अन्वयः-सः पिता समाराधनतत्परेण तेन पुत्रेण यथा एव पुत्री बभूव, तथैव स पुत्रः आत्मजवत्सलेन तेन पित्रा पितृमान् बभूव ।
व्याख्या–सः= प्रसिद्धः पाति = रक्षतीति पिता = जनकः क्षेमधन्वा सम्यग् आराधनं