Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
४५४
रघुवंशे
स शिरीषपुष्पाधिकसौकुमार्यः अतिकोमलांग इत्यर्थः। अत एव सः राजा सुदर्शनः भूषणेन = अलंकारेण अपि खेदं श्रमं यायात् = गच्छेत् । एवं भूतोऽपि सः राजा नितान्तम् = अत्यन्तं गुर्वी = महती तां नितान्तगुर्वीम् अपि धरित्र्याः = पृथिव्याः धुरं = भारम् अनुभावयतीति अनु- ... भावस्तस्मात् अनुभावात् = प्रभावात्-सामर्थ्यादित्यर्थः। बिभराम्बभूव =बभार, धारयामास । __समासः-शिरीषस्य पुष्पाणीति शिरीषपुष्पाणि, शिरीषपुष्पेभ्यः अधिकं सौकुमार्य यस्य स शिरीषपुष्पाधिकसौकुमार्यः । नितान्ता गुर्वी इति नितान्तगुर्वी तां नितान्तगुर्वीम् । .
हिन्दी-शिरीष के फूलों से भी अधिक सुकुमार ( कोमल ) वह राजा था। इसी लिये आभूषण पहनने में भी वह थक जाता था। किन्तु 'इतना कोमल होने पर भी' उसने अपनी सामर्थ्य एवं प्रभाव से पृथिवी के गुरु भार को धारण कर रखा था। संभाल लिया था ॥४५॥
न्यस्ताक्षरामक्षरभूमिकायां कात्स्न्येन गृह्णाति लिपि न यावत् ।
सर्वाणि तावच्छ्रतवृद्धयोगात्फलान्युपायुक्त स दण्डनीतेः ॥ ४६ ॥ अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपक्तिरेखान्यासां लिपि पञ्चाशद्वर्णात्मिकां मातृकां कात्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छृतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुक्तान्वभूत् । प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यमानं शास्त्रं संवादार्थमिवाभवदित्यर्थः ॥
अन्वयः-अक्षरभूमिकायां न्यस्ताक्षसं लिपि कात्स्न्येन यावत् न गृह्णाति, तावत् श्रुतवृद्धयोगात् सर्वाणि दण्डनीतेः फलानि उपायुक्त । ___ व्याख्या अक्षराणाम् = अकारादिहकारान्तानां भूमिका = लेखनपट्टिका तस्याम् अक्षरभूमिकायाम् न्यस्तानि रचितानि = लिखितानीत्यर्थः अक्षराणि = अकारादिवर्णाः यस्याः सा ता न्यस्ताक्षरां लिपि = वर्णमालां पञ्चाशदक्षरात्मिकां मातृकामित्यर्थः । कृत्स्नस्य = समग्रस्य भावः कात्यं तेन कात्स्न्येन = निःशेषतया यावत् = यावत्कालं न गृह्णाति =न शिक्षते, न जानातीत्यर्थः । सः= सुदर्शनः तावत् = तावता कालेन श्रुतवृद्धानां = शास्त्रवृद्धानां नीतिज्ञानामित्यर्थः योगः= संसर्गः =सम्पर्कस्तस्मात् श्रुतवृद्धयोगात् सर्वाणि = अखिलानि दम्यतेऽनेनेति दण्डः = दमः । दण्डः नीयते = बोध्यतेऽनया सा दण्डनीतिः दण्डं नयति = दण्ड्यान् प्रति प्रापयति इति वा दण्डनीतिस्तस्याः दण्डनीतेः =दण्डविधायकशास्त्रस्य फलानि = उपायान् उपायुक्त प्रयुक्तवान् ।
समासः--न्यस्तानि अक्षराणि यस्याः सा तां न्यस्ताक्षराम् । अक्षराणां भूमिका, अक्षरभूमिका तस्याम् , अक्षरभूमिकायाम् । श्रुतेन वृद्धानां योगः श्रुतवृद्धयोगस्तस्मात् ।
हिन्दी-अक्षर लिखने की पटिया पर जिसके अक्षर लिखे गये थे, उस लिपि (वर्णमाला) को अभी पूर्ण रूप से ( पूरी तरह ) वह सुदर्शन सीख भी न पाया था, कि इतने में ही वह विद्वानों के संसर्ग से दण्डनीति एवं राजनीति के सारे उपायों का प्रयोग करना सीख गया। अर्थात् पढ़ने से पूर्व ही वह शास्त्रों के साथ से राजनीति का ज्ञाता प्रयोक्ता हो गया ॥४६॥