Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
४५२
रघुवंशे
महांश्चासौ राजा चेति महाराजः महान् सन् राजते, इति वा महाराजः = प्रभावविशेषवान् , इति शब्दः न मिथ्या = नासत्यः युयुजे युक्तः ।
समासः-अल्पं प्रमाणं यस्य स तस्मिन् अल्पप्रमाणे। महांश्चासौ नीलः महानीलः । महांश्चासौ राजा च महाराजः।
हिन्दी-जिस प्रकार छोटी सी नीलमणि भी चमकदार ( पानीदार ) होने के कारण 'महानोल' उसका वाचक शब्द निरर्थक नहीं होता है उसी प्रकार छोटा बालक होते हुए भी सुदर्शन के विषय में प्रसिद्ध महाराज शब्द ठीक लगता था। अर्थात् अति तेजस्वी होने के कारण महाराज शब्द भी उसमें सार्थक था ॥ ४२ ॥
पर्यन्तसंचारितचामरस्य कपोललोलोभयकाकपक्षात् । ... तस्याननादुच्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम् ॥ ४३ ॥
पर्यन्तयोः पार्श्वयोः संचारिते चामरे यस्य तस्य बालस्य संबन्धिनः कपोलयोलोलावुभौ काकपक्षौ यस्य तस्मादाननादुच्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल। शिशोरपि तस्याशाभङ्गो नासोदित्यर्थः। चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः। उभयकाकपक्षादित्यत्र 'वृत्तिविषये उभयपुत्र इतिवदुभशब्दस्थान उभयशब्दप्रयोगः' इत्युक्तं प्राक् ॥
अन्वयः-पर्यन्तसञ्चारितचामरस्य तस्य कपोललोलोभयकाकपक्षात् आननात् उच्चरितः विवादः अर्णवानां वेलासु अपि न चस्खाल ।
व्याख्या-परिगतौ अन्तमिति पर्यन्तौ, पर्यन्तयोः = पार्श्वयोः संचारितेचालिते चामरे = बालव्यजने यस्य स तस्य पर्यन्तसञ्चारितचामरस्य तस्य = शिशोः-सुदर्शनस्य कं = सुखं पोलतः कपोलौ, कपोलयोः= गण्डस्थलयोः लोलौ = चञ्चलौ उभौ = द्वौ काकपक्षौ = शिखण्डको यस्य तत् , तस्मात् कपोललोलोभयकाकपक्षात् । 'गण्डौ कपोलौ' 'काकपक्षः शिखण्डक' इत्यमरः । आननान् =मुखात् उच्चरितः=भाषितः, उद्गत इत्यर्थः विवादः=आदेशः, वचनमित्यर्थः । अर्णासि =जलानि सन्ति येषु ते अर्णवाः समुद्रास्तेषाम् अर्णवानां वेलासु = समुद्रतटेषु अपि न चस्खाल = नास्खलत् । बालस्य तस्य राशः आज्ञाभंगः नाभवदित्यर्थः। चञ्चलानां संसर्गेऽपि मनस्विनः न विचलन्तीति ध्वनिः। लोलोभयकाकपक्षादित्यत्र, उभयपुत्रइतिवत् वृत्तिविषये उभशब्दस्थाने उभयशब्दस्य प्रयोगः ।
समासः-पर्यन्तयोः संचारिते चामरे यस्य स तस्य पर्यन्तसंचारितचामरस्य । कपोलयोः लोलौ काकपक्षौ यस्य तत्तस्मात् कपोललोलोभयकाकपक्षात् ।
हिन्दी--बाल राजा सुदर्शन के दोनों ( दाएँ बाएँ ) ओर चमर डुलाये जाते थे। और इसके उस मुख से निकली आशा का समुद्रों के तटों पर भी स्खलन नहीं होता था। अर्थात् सागर तट तक इसकी आज्ञा का पालन होता था। जिस मुख पर कि दोनों गालों पर ( कन