Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
तं = सुदर्शनं पुरे भवाः पौराः = नागरिकाः जनाः प्रभोःभावः प्रभुत्वं तस्मात् प्रभुत्वात् = स्वामित्वात् पातीति पिता, पितुः गौरवमिति पितृगौरवं तेन पितृगौरवेण = पितृसम्मानेन,-पितृवदादरेणेत्यर्थः । प्रेक्षन्त = ददृशुः । जनके यादृशः आदरो भवति, तादृक्सम्मानेन दृष्टवन्त इत्यर्थः ।
समासः-राज्ञां वीथी राजवीथी तस्यां राजवीथ्याम् । हस्तिनि इति अधिहस्ति । आधोरणेन आलम्बितस्तम् आधोरणालम्बितम् । अग्र्यः वेशः यस्य स तम् अग्र्यवेशम् । पितुः गौरवं तेन पितृगौरवेण । षट् वर्षाणि भूतः षड्वर्षः, ईषदसमाप्तः षड्वर्षः इति षड्वर्षदेशीयस्तं षड्वर्षदेशीयम् ।
हिन्दी-हाथी पर बैठा हुआ, और जिसको कि पीलवान् ने सहारा दे रखा था, ( पकड़ रखा था ) राजसी वेष भूषा वाला वह छ: वर्ष का छोटा सा राजा जब राजमार्ग में जाता था तो उसको, नागरिक प्रजाजन, उसके पिता के समान आदर से देखते थे। अर्थात् बालक होने पर भी प्रभु होने के नाते बड़े राजा के समान ही उसका आदर करते थे ॥ ३९ ॥
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय ।
तेजोमहिना पुनरावृतात्मा तद् व्याप चामीकरपिञ्जरेण ॥ ४० ॥ स सुदर्शनः पैतृकस्य सिंहानस्य कामं सम्यक्प्रतिपूरणाय नाकल्पत । बालत्वाद्वयाप्तुं न पर्याप्त इत्यर्थः । चामीकरपिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजःसंपदा त्वावृतात्मा विस्तारितदेहः संस्तत्सिंहासनं व्याप व्याप्तवान् ॥
अन्वयः-सः पैतृकस्य सिंहासनस्य प्रतिपूरणाय न अकल्पत, चामीकरपिञ्जरेण तेजोमहिम्ना पुनः आवृतात्मा सन् तत् व्याप । ___व्याख्या-सः सुदर्शनः पितुः आगतं पैतृकं तस्य पैतृकस्य = पितृसम्बन्धिनः सिंहाकारमासनं 'सिंहासनं, सिंह इव वासनमिति सिंहासनं सिंहचिन्हितं वासनं तत्य सिंहासनस्य = नृपासनस्य काम=सम्यक् प्रतिपूरणाय = प्रतिपूरयितुं = व्याप्तुं न अकल्पत =न पर्याप्तः, न समर्थः शिशुत्वादित्यर्थः । किन्तु चमीकरे=आकरे भवं चामोकरं चमनं चामी चामीं करोतीति । चामीकरं - सुवर्णम् इव पिञ्जरः = पीतवर्णस्तेन चामीकरपिञ्जरेण तेजसः =प्रतापस्य महिमा = प्रभावःसम्पदित्यर्थः । इति तेजोमहिमा तेन तेजोमहिम्नः पुनः=तु आवृतः = व्याप्तः आत्मा = देहः यस्य सः आवृतात्मा = विस्तारितशरीरः सन् तत् = सिंहासनं व्याप व्याप्तवान्। स्वतेजसा सर्व सिंहासनमाच्छादितवानित्यर्थः ।
समासः-सिंह इव आसनमिति सिंहासनम् सिंहचिन्हितं वासनं सिंहासनम् । तेजसो महिमा तेन तेजोमहिम्ना । आवृतः आत्मा येन सः आवृतात्मा । चामोकरम् इव पिञ्जरस्तेन चामीकरपिञ्जरेण।
हिन्दी-पिता के सिंहासन पर बैठते समय का वर्णन है कि वह बालक राजा सुदर्शन, यद्यपि अपने पिता के सिंहासन को पूरा छेकने में पर्याप्त समर्थ नहीं था। बच्चा होने से पूरे पर नहीं बैठ पाता था। तो भी सोने के रंग वाले अपने तेज से फैला हुआ सा होकर उस पूरे सिंहासनको छेक लेता था। व्याप्त कर लेता था ॥ ४० ॥