Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
४४८
रघुवंशे
हिन्दी-स्वर्गीय उस राजा ध्रुवसन्धि के मंत्रिमण्डल ने, “राजा के न रहने से" दीन दुःखो प्रजा को देख कर सब की सम्मति से कुल के. एकमात्र आधार ( इकलौते ) उस सुदर्शन को विधिपूर्वक अयोध्या का राजा बना दिया ॥ ३६ ॥
नवेन्दुना तन्नमसोपमेयं शावक सिंहेन च काननेन ।
रघोः कुलं कुड्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ ३७ ॥ अप्रौढनरेन्द्रं तद्रघोः कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना। शावः शिशुरेकः सिंहो यस्मिन् । 'पृथुकः शावकः शिशुः' इत्यमरः । तेन काननेन च । कुड्मलं कुड्मलावस्थं पुष्कर पङ्कजं यस्मिस्तेन तोयेन चोपमेयमुपमातुमर्हमासीत् । नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्यश्रीमत्त्वानि सूचितानि ॥
अन्वयः-अप्रौढनरेन्द्रं तत् रघोः कुलं नवेन्दुना नभसा शावैकसिंहेन काननेन च कुड्मलपुष्करेण तोयेन च उपमेयम् आसीत् ।
व्याख्या-प्रौद्यते स्म इति प्रौढः, न प्रौढः इति अप्रौढः = बालकः नराणां = मनुष्याणाम् इन्द्रः = स्वामी यस्मिन् तत् अप्रौढनरेन्द्रं तत् = प्रसिद्ध रघोः= दिलीपसूनोः कुलं = वंशः नवः- नूतनः, वालः इन्दुः = चन्द्रः यस्मिन् तत्तेन इति नवेन्दुना, शव्यते इति शावः= शिशुः एकः= अद्वितीयः सिंहः= केसरी यस्मिन् तत्तेन शावैकसिंहेन काननेन = अरण्येन च कुड्मलं = मुकुलं, कलिकावस्थमित्यर्थः । पुष्करं = कमलं यस्मिन् तत्तेन कुड्मलपुष्करण तोयेन = जलेन च उपमातुं योग्यम् उपमेयम् = उपमातुमर्हम् आसीत् = अभूत् । वालचन्द्राद्युपमानेनास्य राज्ञः वर्धिष्णुताशूरताश्रीमत्त्वानि सूचितानि ।
समासः-न प्रौढः अप्रौढः, नराणामिन्द्रः नरेन्द्रः अप्रौढः नेरेन्द्रः यस्मिन् तत् अप्रौढ • नरेन्द्रम् । शावः एकः सिंहः यस्मिन् तत्तेन शावैकसिंहेन। नवः इन्दुः यस्मिन् तत्तेन नवेन्दुना। कुड्मलं पुष्करं यस्मिन् तत्तन कुड्मलपुष्करेण।
हिन्दी-बालक राजा वाला वह प्रसिद्ध रघु का कल, उस आकाश के समान था, जिसमें नया एक कला का चन्द्रमा है। तथा उस वन के समान था, जिसमें एक बच्चा ही सिंह है। और उस जल ( तालाब ) के समान सुन्दर था जिसमें कमल की कलियाँ निकली हैं। अर्थात् जैसे ये सब बढ़ने वाले शौर्यसम्पन्न, तथा सुश्री वाले होते हैं, वैसे ही यह बालकराजा वषिष्णु, शूर वीर और श्रीमान् होगा ॥ ३७॥
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलमप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ ३८॥ स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्ध तोः पितुस्तुल्यः पितृसरूप एव भावी भविष्यति लोकेन जनेन संभावितस्तकिंतः । तथाहि । कलभप्रमाणः कलभमात्रोऽपि मेधः पुरोवातमवाप्याशा दिशो वृण्वन्गच्छन्दृष्टो हि ॥