Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
४३२
रघुवंशे
यः=न हीनः=न निन्द्यः इति अहीनः, अहीनम् - अनिन्द्यं = प्रशंसनीयमित्यर्थः गच्छतीति अहीनगुः = एवन्नाम आसीत्, सः = पूर्वोक्तः देवानीकपुत्रः समग्रां = सम्पूर्णां गां = पृथिवीं
शशास = पालयामास ।
समासः -- न हीने अहीने बाहुद्रविणे च यस्य सः अहीनबाहुद्रविणः । हीनानां संसर्गः हीनसंसर्गस्तस्मात् पराङ्मुखत्वं तस्मात् हीनसंसर्गपराङ्मुखत्वात् । न अर्थः येषां तानि अनर्थानि तैः अनर्थैः ।
हिन्दी - शक्तिशाली भुजा वाला और अच्छे धन एवं पराक्रमवाला अहोनगु नामक 'देवानीक का पुत्र था, जो कि सदा नीच लोगों के संबन्ध से दूर रहता था, और जो भी अनर्थकारी मदिरापान जुआ खेलना आदि दुर्व्यसन थे इनसे जवानी में ही दूर रहकर वह सारे भूमण्डल पर शासन करता था ॥ १४ ॥
गुरोः स चानन्तरमन्तरज्ञः पुंसां पुमानाद्य इवावतीर्णः । उपक्रमैरस्खलितैश्चतुर्भिश्चतुर्दिगीशश्चतुरो बभूव ॥ १५ ॥
पुंसामन्तरज्ञो विशेषज्ञश्चतुरो निपुणः सोऽहीनगुश्च गुरोः पितुरनन्तरम् । अवतीणों भुवं प्राप्त आद्यः पुमान्विष्णुरिव । अस्खलितैरप्रतिहतैश्चतुर्भिरुपक्रमैः सामाद्युपायैः । 'सामादिभिरुपक्रमैः' इति मनुः। चतुर्दिगीशश्चतसृणां दिशामीशो बभूव ॥
अन्वयः– पुंसाम् अन्तरज्ञः चतुरः सः गुरोः अनन्तरम् अवतीर्णः आद्यः पुमान् इव अस्खलितैः चतुर्भिः उपक्रमैः चतुर्दिगीशः बभूव ।
व्याख्या - पुंसां = नराणाम् अन्तरम् = अभ्यन्तरं जानाति = वेत्तीति अन्तरज्ञः = • विज्ञः इत्यर्थः। चतुरः=दक्षः-सर्वकर्मकुशल इत्यर्थः, सः = देवानीकपुत्रोऽहीनगुः, गुरोः=पितुः अनन्तरं = पश्चात् अवतीर्णः = गृहीतावतारः आदौ भव आद्यः पुमान् = पुराणपुरुषः विष्णुः इव= यथा न स्खलिताः = न प्रतिहताः, इति अस्खलितास्तैः अस्खलितैः चतुर्भिः = चतुःसंख्याकैः उपक्रम्यन्ते इति उपक्रमास्तैः उपक्रमैः = सामदानाद्युपायैः चतसृणां दिशां = काष्ठानाम् ईशः : स्वामीति चतुर्दिगीशः बभूव = जातः ।
-
समासः—अन्तरस्य शः अन्तरज्ञः, न स्खलिताः अस्खलितास्तैः अस्खलितैः चतस्रश्च ताः दिशः चतुर्दिशस्तासाम् ईशः इति चतुर्दिगीशः ।
हिन्दी -- मनुष्यों के मन की बाते जानने वाला, तथा कार्य करने में कुशल ( चतुर ) वह • अहीनगु, पिता के बाद राजा होकर सफलता पूर्वक उन साम दान दण्ड भेदरूपी चारों . उपायों से, अवतार लेनेवाले आदि पुरुष विष्णु की तरह चारों दिशाओं का स्वामी हो गया । ...जो उपाय कभी व्यर्थ नहीं हुये थे ॥ १५ ॥
तस्मिन्प्रयाते परलोकयात्रां जेतर्यरीणां तनयं तदीयम् ।
उच्चैः शिरस्त्वाजित पारियात्रं लक्ष्मीः सिषेवे किल पारियात्रम् ॥ १६॥