Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
अष्टादशः सर्गः
हिन्दी-पवित्र चरित्र वाले राजा पारियात्र ने बुद्धि एवं सदाचार वाले अपने जवान बेटे शिल को युवराज बनाकर ही सुखों का उपभोग किया ( बिना युवराज बनाए नहीं) इसलिये कि राजाओं का प्रजा को देख रेख करना अधिक काम होने के कारण सुख के उपभोग का प्रतिबन्धक होता है। अर्थात् जब राजा स्वयं राज्य के काम-काज को सम्भालेगा तो उसे सुख कैसे होगा ॥ १८ ॥
तं रागबन्धिष्ववितृप्तमेष भोगेषु सौभाग्यविशेषमोग्यम् । पिनासिनीनामरतिक्षमापि मरा वृथा मत्सरिणी जहार ॥ १९ ॥ रागं बध्नन्तीति रागबन्धिनः । रागप्रवर्तका इत्यर्थः । तेषु भोगेषु विषयेष्ववितृप्तमेव सन्तम् । किंच विलासिनीनां भोक्त्रीणां सौभाग्यविशेषेण सौन्दर्यातिशयेन हेतुना भोग्यं भोगाईम् । 'चजोः कु घिण्यतोः' इति कुत्वम् । तं पारियानं रतिक्षमा न भवतीत्यरतिक्षमापि अत एव वृथा मत्सरिणी। रतिक्षमासु विलासिनीष्वित्यर्थः । जरा जहार वशीचकार ॥
अन्वयः-रागबन्धिषु भोगेषु अवितृप्तम् एव किंच विलासिनीनां सौभाग्यविशेषभोग्यं तम् अरतिक्षमा अपि 'अत एव' वृथा मत्सरिणी जरा जहार ।
व्याख्या-रागम् = अनुरागं बध्नन्ति = वर्धयन्तीति रागबन्धिनस्तेषु रागबन्धिषु = अनुरागप्रवर्तकेष्वित्यर्थः । भोगेषु = विषयजसुखेषु न वितृप्तः अवितृप्तस्तम् अवितृप्तम् = असन्तुष्टम् एव सन्तं किञ्च विलासोऽस्ति यासां ताः विलासिन्यस्तासां विलासिनीनां = भोक्त्रीणां सभगस्य भावः कर्म वा सौभाग्यं सौभाग्यस्य = सौन्दर्यस्य विशेषः = अतिशयस्तेन भोग्यः=भोक्तुं योग्यः तं सौभाग्यविशेषभोग्यं तं = पारियानं राजानं रतौ सम्भोगे क्षमा =समर्था इति रतिक्षमा, सा न भवतीति अरतिक्षमा= सम्भोगसुखानीं अपि अत एव माद्यति परदुःखे इति मत्सरः अस्याः अस्तीति मत्सरिणी= अन्यशुभद्वेषवती सम्भोगयोग्यासु विलासिनीष्वित्यर्थः। जीर्यतेऽनया सा जरा= विस्रसा “विस्रसा जरा" इत्यमरः । वृद्धावस्था, इत्यर्थः जहार=वशीचकार ।
समासः--रागस्य बन्धिनस्तेषु रागबन्धिषु । सौभाग्यस्य विशेषः सौभाग्यविशेषस्तेन भोग्यरतं सौभाग्यविशेषभोग्यम् । रतौ क्षमा रतिक्षमा न रतिक्षमा अरतिक्षमा।
हिन्दी-अनुरागों ( भोगतृष्णा ) को बढ़ानेवाले, विषयभोग में जिसका मन अभी तृप्त ही न हुआ था, तथा अति सुन्दर होने कारण सुन्दरियों के भोगने के योग्य उस राजा पारियात्र को, उस वृद्धावस्था ने अपने वश में कर लिया ( आ घेरा ), जो कि स्वयं वृद्धावस्था ( नायिका) सम्भोग करने में असमर्थ होती हुई भी व्यर्थ में दूसरों से ईर्ष्या करती है ॥ १९ ॥
उनाभ इत्युद्गतनामधेयस्तस्यायथार्थोन्नतनाभिरन्ध्रः ।
सुतोऽभवत्पङ्कजनाभकल्पः कृत्स्नस्य नामिर्नुपमण्डलस्य ॥ २० ॥ तस्य शिलाख्यस्योन्नाभ इत्युद्गतनामधेयः प्रसिद्धनामायथार्थ यथा तथोन्नतं नाभिरन्धं यस्य सः । गम्भीरनाभिरित्यर्थः। तदुक्तम्-'स्वरः सत्त्वं च नाभिश्च गाम्भीर्य त्रिषु शस्यते' । पक