Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
अष्टादशः सर्गः
४४५
समासः-पुष्पस्य इव रागः यस्य स पुष्परागः, निर्जितः पुष्परागो येन स तं निर्जितपुष्परागम् ।
हिन्दी-राजा 'पुत्र' की पत्नी ( रानी ) ने पुष्यनक्षत्र वाली पौषमास की पूर्णिमा तिथि के दिन, अपनी कान्ति से पद्मरागमणि की कान्ति को जीतने वाला ( पद्मराग से भी सुन्दर ) पुष्यनामक पुत्र पैदा किया। दूसरे पुष्य नक्षत्र के समान उसका जन्म होने पर प्रजा ने सभी प्रकार को उन्नति को प्राप्त किया । अर्थात् धनधान्य से प्रजा परिपूर्ण हो गई ॥ ३२ ॥
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽपितात्मा । तस्मात्सयोगादधिगम्य योगमजन्मनेऽकल्पत जन्मभीरुः ॥ ३३ ॥
महेच्छो महाशयः । 'महेच्छस्तु महाशयः' इत्यमरः । जन्मभीरुः संसारभीरुः स पुत्रः सूनौ महीं परिकोर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽपितात्मा । शिष्यभूतः सन्नित्यर्थः। संयोगाद्योगिनस्तस्माज्जैमिनेयोगं योगविद्यामधिगम्याजन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत। क्लृपेः संपद्यमाने चतुर्थी वक्तव्या । मुक्त इत्यर्थः ।
अन्वयः-महेच्छ: जन्मभीरुः सूनौ महीं प्रकीर्य मनीषिणे जैमिनये अपितात्मा 'सन्' सयोगात् तस्मात् योगम् अधिगम्य अजन्मने अकल्पत । ___ ग्याख्या-महती विशाला इच्छा= अभिलाषः यस्य स महेच्छः = महाशयः “महेच्छस्तु महाशयः" इत्यमरः । जन्मनः =संसारात् भीरुः=भयशीलः इति जन्मभीरुः सः= पुत्रनामको राजा सूनौ=पुत्रे मह्यते = पूज्यते इति मही तां महीं पृथिवी राज्यमित्यर्थः । परिकीर्य = विसृज्य = दत्वा मनसः ईषा मनीषा शकन्ध्वादित्वात् साधुः। मनीषास्यास्तीति मनीषी तस्मै मनीषिणे = अध्यात्मविद्याविदुषे जैमिनये = जैमिनिमहर्षये - अपितः= समर्पितः = आत्मा = स्वं येन सः अपितात्मा शिष्यभूतः इत्यर्थः । सन् योगेन = योगविद्यया सहितः सयोगस्तस्मात् सयोगात् =महायोगिनः सकाशात् योग = योगाविद्याम् अधिगम्य = अधीत्य न जन्म = उत्पत्तिः इति अजन्म तस्मै अजन्मने = अपवर्गाय अकल्पत = समपद्यत मुक्तोऽभवदित्यर्थः ।
समासः-महती इच्छा यस्य स महेच्छः। अर्पितः आत्मा येन सः अपितात्मा । योगेन , सहितः सयोगस्तस्मात् सयोगात् । जन्मनः भीरुः जन्मभीरुः। न जन्म अजन्म तस्मै अजन्मने ।
हिन्दी-उदार आशय वाले ( महान् ) संसार में पुनः जन्म से डरने वाले राजा पुत्र ने अपने पुत्र पुष्य को राज्य देकर स्वयं आत्मज्ञानी महर्षि जैमिनि के शिष्य बनकर और उनसे योग सीखकर आवागमन से छूट गये अर्थात् योगाभ्यास करके मुक्त हो गये ॥ ३३ ॥
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् । यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्भुवः संनमतामरीणाम् ॥ ३४ ॥