________________
सप्तदशः सर्गः
४२१ करते हैं, उसी प्रकार सारे राजा लोग भी, राजा अतिथि की पत्रों द्वारा दी हुई आज्ञा को अपने उन मस्तकों से धारण करते थे, जिन मस्तकों से पहले से ही छत्र उतार दिये जाते थे ॥७९॥ __ ऋत्विजः स तथानर्च दक्षिणाभिर्महाक्रतो ।
यथा साधारणीभूतं नामास्य धनदस्य च ॥ ८० ॥ स राजा महाकतावश्वमेधे ऋत्विजो याजकान्दक्षिणाभिस्तथानर्चार्चयामास । अर्चतेभीवार दिकाल्लिट् । यथास्य राज्ञो धनदस्य च नाम साधारणीभूतमेकीभूतम् । उभयोरपि धनदसंज्ञा यथा स्यात्तथेत्यर्थः ॥
अन्वयः-सः महाक्रतौ ऋत्विजः दक्षिणाभिः तथा आनर्च यथा अस्य धनदस्य च नाम साधारणीभूतम् ।
व्याख्या-सः= राजा अतिथिः करोति, क्रियते वा क्रतुः=यशः। महांश्चासो क्रतुः क्रतुः महाक्रतुः तस्मिन् महाक्रतौ= अश्वमेधे यज्ञे ऋतौ याजयन्तीति ऋत्विजस्तान् ऋत्विजः = याजकान् दक्षिणाभिः = कर्मणः सांगतासिद्धयर्थं देयद्रव्यैः तथा =तेन प्रकारेण आनर्च = पूजयामास, यथा = येन प्रकारेण अस्य = राज्ञोऽतिथेः धनानि = द्रव्याणि ददातीति धनदस्तस्य धनदस्य कुबेरस्य नाम=आख्या न साधारणमिति असाधारणम् । असाधारणं साधारणं सम्पद्यमानं साधारणीभूतम् = एकीभूतं, द्वयोः अतिथिकुबेरयोः धनदातृत्वेन धनदः, इत्येकं नाम प्रसिद्धमभूदित्यर्थः। ___ समासः-महांश्चासौ क्रतुः महाक्रतुस्तस्मिन् महाक़तौ। न साधारणम् असाधारणम् , असाधारणं साधारणं संपद्यमानमिति साधारणीभूतम् ।
हिन्दी-अश्वमेध यज्ञ में यज्ञ कराने वाले ब्राह्मणों को राजा अतिथि ने दक्षिणा से इतना पूजा ( उनको दक्षिणा दी ) कि 'तब से' राजा और कुबेरका एक ही नाम (धनद ) हो गया। अर्थात् अधिक धन देने कारण राजा को कुबेर कहने लगे ॥ ८० ॥ इन्द्राद् वृष्टिर्नियमितगदोद्रेकवृत्तिर्यमोऽभू
द्यादोनाथः शिवजलपथः कर्मणे नौचराणाम् । पूर्वापेक्षी तदनु विदधे कोषवृद्धिं कुबेर
स्तस्मिन्दण्डोपनतचरितं भेजिरे लोकपालाः ॥ ८१ ॥ इन्द्रावृष्टिरभूत् । यमो नियमिता निवारिता गदस्य रोगस्योद्रेक एव वृत्तियेन सोऽभूत् । यादोनाथो वरुणो नौचराणां नाविकानां कर्मणे संचाराय शिवजलपथः सुचरजलमार्गोऽभृत् । तदनु पूर्वापेक्षी रघुरामादिमहिमाभिशः कुबेरः कोषवृद्धिं विदधे । इत्थं लोकपालास्तस्मिन्राशि विषये दण्डोपनतस्य शरणागतस्य चरितं वृत्तिं भेजिरे । 'दुर्बलो बलवत्सेवी विरुद्धाच्छङ्कितादिभिः । वर्तेत दण्डोपनतो भर्तयेवमवस्थितः ॥' इति कौटिल्यः ॥ इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेत
महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अतिथिवर्णनो नाम सप्तदशः सर्गः ।