________________
षोडशः सर्गः
वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दबिन्दुः । तवारविन्दाक्ष पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥
अथेतरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च । चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १ ॥
अथ रामनिर्वाणानन्तरमितरे लवादयः सप्त रघुप्रवीराः पुरः पूर्व जन्म यस्य तस्य भावस्तत्ता तया । गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः । तदुक्तम्- 'जातौ जातौ यदुत्कृष्टं तद्रलमभिधीयते' इति । तथाहि । सुभ्रातॄणां भावः सौभ्रात्रम् । 'हायनान्त - ' इत्यादिना युवादित्वादण्प्रत्ययः । एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ॥
अन्वयः - अथ इतरे सप्त रघुप्रवीराः पूर्वजन्मतया गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं चक्रुः, हि सौभ्रात्रम् एषां कुलानुसारिं आसीत् ।
व्याख्या-आथ = - रामस्य स्वर्गारोहणानन्तरम् इतरे = लवादयः सप्त = • सप्तसंख्यकाः प्रकृष्टाः वीराः प्रवीराः रघुषु = रघुवंशीयेषु प्रवीराः = श्रेष्ठशूराः, इति रघुप्रवीराः पुरः = प्रथमं जन्म = उत्पत्तिः यस्य स पुरोजन्मा, पुरोजन्मनः भावः पुरोजन्मता तया पुरोजन्मतया, पूर्वोत्पन्नत्वेनेत्यर्थः । तथा गुणैः = दयादाक्षिण्यशौर्यादिभिश्च ज्येष्ठं = श्रेष्ठम् अतिप्रशस्तमित्यर्थः । कुशं = कुशनामकं भ्रातरम् रत्नानां = तत्तच्छ्रेष्ठवस्तूनां विशेषम् = उत्कृष्टं भजतीति रत्नविशेषभाक् तं रत्नविशेषभाजं चक्रुः = कृतवन्तः । हि = यतः सु = शोभनाः भ्रातरः सुभ्रातरः सुभ्रातॄणां भावः सौभ्रात्रं = भ्रातृवात्सल्यम् एषां कुशलवादीनां कुलस्य = वंशस्य अनुसारि = अनुगतमिति कुलानुसारि, भ्रातृवात्सल्यमेषां कुलक्रमागतमित्यर्थः । आसीदिति शेषः ।
समासः - रघुषु प्रवीराः इति रघुप्रवीराः । पुरः जन्म यस्य स पुरोजन्मा, तस्य भावतत्ता तया पुरोजन्मतया । रत्नेषु विशेषः, रत्नविशेषः, रत्नविशेषस्य भाक् इति रत्नविशेषभाक्, तं रत्नविशेषभाजम् । कुलस्य अनुसारि, इति कुलानुसारि ।
हिन्दी - रामचन्द्रजी के स्वधाम चले जाने पर रघुकुल में श्रेष्ठ शूर, वीर दूसरे सातों ( लव, तक्ष, पुष्कल, सुबाहु, बहुश्रुत, अंगद और चन्द्रकेतु) भाईयों ने सब में बड़ा होने के कारण तथा गुणों से भी सर्वश्रेष्ठ होने के कारण कुश को संसार की सभी श्रेष्ठ वस्तु वाला कर दिया, ( अर्थात् सब श्रेष्ठ रत्नादिवस्तु कुश को दे दी ( भाइयों में प्रेम श्रद्धा रखना) तो इनके कुल के अनुकूल है सदा रहती है ॥ १ ॥
)
ठीक ही है भ्रातृवात्सल्य
।
यह परम्परा इनके कुल में