________________
षोडशः सर्गः
३२५
समासः---उद्यानानां लताः उद्यानलताः । दयया सहितमिति सदयम् ।
हिन्दी-"आर" पहले नगर की शौकीन सुन्दरी नारियाँ दयापूर्वक धीरे से टहनी या लताओं को झुकाकर जिन लताओं के फूलों को तोड़ती थीं, वही मेरी प्रिय लताएँ, अब जंगलो भीलों के समान बन्दरों के द्वारा नोची-तोड़ी जा रही हैं। अर्थात् जैसे जंगली लोग लता वृक्ष को निर्दयी होकर नष्ट करते हैं वैसे ही मेरी लताओं को अब बन्दर नष्ट भ्रष्ट कर रहे हैं ॥१९॥
रात्रावनाविष्कृतदीपभासः कान्तामुखश्रीवियुता दिवापि ।
तिरस्क्रियन्ते कृमितन्तुजालैर्विच्छिन्नधूमप्रसरा गवाक्षाः ॥ २० ॥ रात्रावनाविष्कृतदोपभासः । दोपप्रभाशून्या इत्यर्थः । दिवापि दिवसेऽपि कान्तामुखानां श्रिया कान्त्या वियुता रहिता विच्छिन्नो नष्टो धूमप्रसरो येषां ते गवाक्षाः कृमितन्तुजाले तातन्तुवितानैस्तिरस्क्रियन्ते छाद्यन्ते ॥
अन्वयः-रात्रौ अनाविष्कृतदीपभासः दिवा अपि कान्तामुखश्रीवियुता विच्छिन्नधूमप्रसराः गवाक्षाः कृमितन्तुजालेः तिरस्क्रियन्ते ।
व्याख्या-राति = ददाति सुखं या सा रात्रिस्तस्यां रात्रौ = निशायाम् न आविष्कृता अनाविष्कृता = अप्रकटीकृता दीपानां = दीपकानां भाः = दीप्तिः, प्रकाशः इत्यर्थः यस्ते अनाविष्कृतदीपभासः- प्रदीपप्रकाशरहिता इत्यर्थः । दिवापि = दिनेऽपि कान्तानां =सुन्दरीणा मुखानि = आननानि, तेषां श्रीः = कान्तिः, शोभा इति कान्तामुखश्रीः, कान्तामुखश्रिया वियुताः = रहिताः, इति ते कांतमुखश्रीवियुताः विच्छिन्नः = नष्ट: ( जनशून्यत्वादित्यर्थः ) धूमस्य प्रसरः= निर्गमनं येषां ते विच्छिन्नधूमप्रसराः गवामक्षीणि इव गवाक्षाः, गावः= जलानि, किरणा वा अक्षन्ति = व्याप्नुवन्ति राभिस्ते गवाक्षाः = वातायनानि “वातायनं गवाक्षः" इत्यमरः। कृमिभिः = ऊर्णनाभैः निर्मिताः तन्तवः = सूत्राणि इति कृमितन्तवस्तेषां जालानि = आनायास्तैः कृमितन्तुजालैः, लूतानिर्मितसूत्रवितानैः तिरस्क्रियन्ते = आच्छाद्यन्ते ॥
समासः--कान्तानां मुखानि कान्तामुखानि, तेषां श्रीः तया वियुताः इति कान्तामुखश्रीवियुताः। न आविष्कृता अनाविष्कृता, अनाविष्कृता दीपानां भाः यस्ते अनाविष्कृतदी'पभासः। विच्छिन्नः धूमस्य प्रसरः येषु ते विच्छिन्नधूमप्रसराः । कृमिभिः निर्मिताः तन्तवः कृमितन्तवः तेषां जालानि तैः कृमितन्तुजालैः ।
हिन्दी-"और आजकल मेरी नगरी के” रोशनदान खिड़कियाँ मकड़ी के जालों से ढके पड़े हैं और उन झरोखों से रात में दीपकों का प्रकाश ( रोशनी ) नहीं निकलती है । और न उनमें दिन में भी सुन्दरियों के मुख की छवि ही दिखाई देती है। तथा धूप के धुएँ का निकलना भी उनसे नहीं दीखता है। अर्थात् पहले ये सब कुछ था अब जनशून्य होने से कुछ नहीं रहा ।। २० ॥