________________
रघुवंशे अबालव्यजनम् अयत्नेन अनायासेन अबालव्यजनानि बालव्यजनानि =रोमगुच्छकानि समपद्यन्त इति बालव्यजनीबभूवुः = चामराणि सञ्जातानि, इत्यर्थः । पद्येऽस्मिन् श्रीविश्वनाथकविराजेन 'अस्थानस्थपदत्वदोषः' प्रकटितः । तन्न युक्तम् , अत्रहि तदीयपदेन विन्ध्यस्य ग्रहणं नतु गंगायाः । विन्ध्यस्य प्रकृतत्वात् । अतो निर्दुष्टं पद्यमिदमिति । ___ समासः-गजाः एव सेतुः गजसेतुः, तस्य बन्धस्तस्मात् गजसेतुबन्धात् । नभसि लंघनमिति नभोलंघनं, तेन लोलाः पक्षा यषां ते नभोलंघनलोलपक्षाः। अयत्नेन अबालव्यजनानि, बालव्यजनानि संजातानीति अयत्नबालव्यजनीबभूवुः ।
हिन्दी-विन्ध्याचल के घाट पर उल्टी बहती हुई गंगा पर हाथियों का पुल बान्धकर उससे गंगा को पार करने वाले इस राजा कुश के विना प्रयत्न किये ही वे हंस चामर बन गये, जिनके कि आकाश में उड़ने से पंख हिल रहे थे। अर्थात् इधर-उधर हिलते हुए वे सफेद पंख हो चामर के समान थे। इस पद्य में साहित्यदर्पणकार ने अस्थानस्थपदता दोष दिया है सो ठीक नहीं, यतः तत्पद से विन्ध्य का ग्रहण है ॥ ३३ ॥
स पूर्वजानां कपिलेन रोषाभस्मावशेषीकृतविग्रहाणाम् ।
सुराऽलयप्राप्तिनिमित्तमम्मस्वैस्रोतसं नौलुलितं वव दे ॥ ३४ ॥ स कुशः कपिलेन मुनिना रोषाद्भस्मावशेषीकृता विग्रहा देहा येषां तेषां पूर्वजानां वृद्धानां सगराणां सुरालयस्य स्वर्गस्य प्राप्तौ निमित्तं नौभिर्खलितं क्षुभितम् । बिस्रोतस इदं त्रैस्रोतसं गाङ्गमम्भो ववन्दे ॥ __अन्वयः-सः कपिलेन रोषात् भस्मावशेषोकृतविग्रहाणां पूर्वजानाम् सुरालयप्राप्तिनिमित्तं नौलुलितं त्रैस्रोतसम् अम्भः ववन्दे । __ व्याख्या—सः =राजा कुशः कपिलेन = मुनिना रोषात् क्रोधात् भस्म = भूतिः अवशेषम् =अवशिष्टं येषां ते भस्मावशेषाः न भस्मावशेषाः अभस्मावशेषाः संपद्यमानाः भस्मावशेषीकृताः विग्रहाः= देहाः येषां ते तेषां भस्मावशेषीकृतविग्रहाणाम् पूर्वस्मिन् काले जाताः पूर्वजास्तेषां पूर्वजानां = वृद्धानाम् , सागराणां सुरालयस्य =स्वर्गस्य प्राप्तिः = अवाप्तिः, तस्यां निमित्तं = कारणं तत् सुरालयप्राप्तिनिमित्तं नौभिः= नौकाभिः लुलितं =क्षुभितं प्रकम्पितं तत् नौलुलितं, त्रीणि स्रोतांसि यन्याः त्रिस्रोताः, त्रिस्रोतसः भागीरथ्याः इदं त्रैस्रोतसं तत् अम्भः = जलं, गंगाजलं, गंगामित्यर्थः ववन्दे = प्रणनाम ।
समासः-भस्मावशेषोकृताः विग्रहाः येषां ते तेषां भस्मावशेषीकृतविग्रहाणाम् । पूर्व जाताः पूर्वजास्तेषां पूर्वजानाम्। सुराणाम् आलयः सुरालयः, सुरालयस्य प्राप्तिः, तस्यां निमित्तं तत् सुरालयप्राप्तिनिमित्तम् । नौभिः लुलितं, तत् नौलुलितम् ।
हिन्दी-राजा कुशने, कपिलमुनि ने क्रोध से जिनके शरीरों को भस्म कर दिया था, उन अपने पूर्वजों ( सगर के ६० हजार पुत्रों ) की स्वर्ग की प्राप्ति का कारण ( स्वर्ग में पहुँचाने वाली ) तीन स्रोतों वाली गंगा जी के जल को प्रणाम किया ॥ ३४ ॥