Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
सप्तदशः सर्गः
केवलम् = एकमात्रं शूरस्य भावः शौर्य = शूरत्वं च शुन इव आपद् येभ्यस्ते श्वापदाः शुनः इव पदानि वा येषां ते श्वापदा व्याघादयः तेषां चेष्टितम् = चेष्टापायम् । “व्याघ्रादयो वनचराः पशवः श्वापदा मताः" इति हलायुधः। अतः अस्माद्धेतोः सः = राजा अतिथिः समेताभ्यां = मिलिताभ्याम् उभाभ्यां = द्वाभ्याम् सिद्धिं = सफलतां, विजयप्राप्तिमित्यर्थः । अन्त्रियेष = गवेषयामास।
समासः-शुन इव आपद् येभ्यस्ते श्वापदाः । शुन इव पदानि येषां ते वा श्वापदास्तेषां चेष्टितमिति श्वापदचेष्टितम् । सम्यक् इते समेते ताभ्यां समेताभ्याम् ।।
हिन्दी-एकमात्र कूटनीति से काम करना कायरता है और केवल शूरता ( मार काट कर जीतना ) पशुओं का स्वभाव है। इसलिये राजा अतिथि ने राजनीति तथा पराक्रम दोनों से "समयानुसार" विजय प्राप्ति की खोज की। विजय प्राप्त की ।। ४७ ॥
न तस्य मण्डले राज्ञो न्यस्तप्रणिधिदीधितेः ।
अदृष्टममवत्किंचिद्वयभ्रस्येव विवस्वतः ॥ ४० ॥ न्यस्ताः सर्वतः पहिताः प्रणिधयश्चरा एव दोधितयो रश्मयो यस्य तस्य । 'प्रणिधिः प्रार्थने चरे' इति शाश्वतः । तस्य राज्ञः। व्यभ्रस्य निर्मवस्य विवस्वतः सूर्यस्येव । मण्डले स्वविषये किंचिदल्पमप्यदृष्टमशातं नाभवन्नासीत् । स चारचक्षुषा सर्वमपश्यदित्यर्थः ॥
अवन्य-न्यस्तप्रणिधिदीधितेः तस्य राज्ञः मण्डले ज्यभ्रस्य विवस्वतः इव किंचित् अदृष्टं न अभवत्।
व्याख्या--न्यस्ताः सर्वत्र प्रेषिताः प्रणिधयः= गुप्तचराः एव दीधितयः = रश्मयः यस्य स तस्य न्यस्तप्रणिधिदीधितेः। प्रकर्षेण निधीयते ज्ञेयं येषु ते प्रणिधयः । तस्य = प्रसिद्धस्य राज्ञः= अतिथेः मण्डले = राष्ट्र = स्वदेश, इत्यर्थः । अपः बिभर्ति, अभ्रति = गच्छतोति वा अघ्रम् । विगतानि अभ्राणि = मेवाः यस्य स तस्य व्यभ्रस्य = मेवरहितस्य विविध वस्ते = आच्छादयतीति विवः रश्मिः अस्यास्तीति विवस्वान् तस्य विवस्वतः = सूर्यस्य मण्डले = परिवेष, स्वविषये इत्यर्थः । इव = यथा किंचित् = ईषदपि न दृष्टम् अदृष्टम् = अज्ञातम् , अनवलोकितम् न आसीत् = नाभवत् । चारचक्षुषः राजानः सर्व पश्यन्तीत्यर्थः।
समासः-न्यस्ताः प्रणिधयः एव दीधितयो येन स तस्य न्यस्तपणिधिदीधितेः । विगतानि अभ्राणि यस्य तस्य व्यभ्रस्य । न दृष्टम् अदृष्टम् ।
हिन्दी-जिस प्रकार बादल रहित आकाश में सूर्य किरणों के फैल जाने से कुछ भी छिपा नहीं रहता है, उसी प्रकार राजा ने अपने गुप्तचरों को सब जगह भेज रखा था। अतः पूरे देश में कुछ भी अज्ञात नहीं था। अर्थात् सर्वत्र नियुक्त गुप्तचरों के द्वारा राजा सब कुछ मान लेता था ॥४८॥