________________
सप्तदशः सर्गः
हिन्दी - राजा अतिथि, शत्रु की तथा अपनी शक्ति सामर्थ्य सेना आदि के बलाबल ( अधिकता न्यूनता ) की परीक्षा करके ( निश्चय करके) ही अपनी शक्ति के शत्रु से अधिक होने पर ( अपना बल अत्यधिक होने पर ) यात्रा शत्रु पर चढ़ाई करते थे । इसके विपरीत शत्रु बल अधिक, अपना कम होने पर चुपचाप बैठे रहते थे ॥ ५९ ॥
४०९
कोशेनाश्रयणीयत्वमिति तस्यार्थसंग्रहः ।
organ हि जीमूतश्चातकैरभिनन्द्यते ॥ ६० ॥
कोशेनार्थचयेनाश्रयणीयत्वं भजनीयत्वम् । भवतीति शेषः । इति हेतोस्तस्य राज्ञः कर्तुः अर्थ - संग्रहः । न तु लोभादित्यर्थः । तथाहि अम्बु गर्भे यस्य सोऽम्बुगर्भः । जीवनस्य जलस्य मूतः पुटबन्धो जीमूतो मेघः । ‘मूङ् बन्धने' । पृषोदरादित्वात्साधुः । चातकैरभिनन्द्यते सेव्यते । अत्र कामन्दकः--‘धर्महेतोस्तथार्थाय भृत्यानां रक्षणाय च । आपदर्थं च संरक्ष्यः कोशो धर्मवता सदा ॥' इति ॥
अन्वयः -- कोशेन आश्रयणीयत्वं भवतीति शेषः, इति तस्य अर्थसंग्रह: (भवति) हि अम्बुगर्भ: जीमूतः चातकैः अभिनन्द्यते ।
व्याख्या – कोशेन = हेमरूप्यचयेन आश्रयितुं योग्यम् आश्रयणीयं तस्य भावः आश्रयणी - यत्वं = सेवनीयत्वं भवतीति शेषः । इति = अस्माद्धेतोः तस्य = राज्ञः अतिथेः अर्थस्य = द्रव्यस्य हेमरूप्यात्मकस्य संग्रहः संचयः समाहरणम् न तु लोभादिना, इत्यर्थः । तथाहि--अम्बु – जलं गर्भे = अभ्यन्तरे यस्य सः अम्बुगर्भः, जीवनं जलं मूतं == बद्धमनेन, जीमूतः, ज्यानं जी:, जिया = वयोहान्या मूतः = बद्धः इति वा जीमूतः = मेघः चतन्ते = याचंते जलमिति चातकास्तैः चातकैः = सारंगैः-पक्षिविशेषैरित्यर्थः अभिनन्द्यते = सेव्यते ।
=
समासः—अर्थस्य संग्रहः अर्थसंग्रहः । अम्बु गर्भे यस्य सः अम्बुगर्भः । जिया मूतः जीमूतः ।
हिन्दी -- खजाने से एक तो सम्मान रहता है और धनवान् आश्रयदाता बनता है । अतः राजा अतिथि के पास धन का संग्रह था । लोभादिके कारण वे धन नहीं बटोरते थे । ठीक भी है - चातक उन्हीं मेघों का अभिनन्दन ( स्वागत ) करते हैं जिनमें जल भरा रहता है । अर्थात् खाली को कोई नहीं पूछता है ॥ ६० ॥
परकर्मापहः सोऽभूदुद्यतः स्वेषु कर्मसु ।
आवृणोदात्मनो रन्ध्रं रन्ध्रेषु प्रहरन्रिपून् ॥ ६१ ॥
स राजा परेषां कर्माणि सेतुवार्तादीन्यपहन्तीति परकर्मापहः सम् । 'अन्येष्वपि दृश्यते' इत्यपिशब्दसामर्थ्याद्धन्तेर्डप्रत्ययः । स्वेषु कर्मसूद्यत उद्युक्तोऽभूत् । किंच । रिपून्रन्ध्रेषु प्रहरन्नात्मनो रन्ध्रं व्यसनादिकमावृणोत्संवृतवान् । अत्र मनुः - 'नास्य च्छिद्रं परो विद्याद्विद्याच्छिद्रं परस्य तु । गुहेत्कूर्म इवाङ्गानि रक्षेद्विवरमात्मनः ॥' इति ॥