Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
1
रघुवंशे
अन्वयः - सः परकर्मापहः सन् स्वेषु कर्मसु उद्यतः अभूत् । किञ्च रिपून् रन्ध्रेषु प्रहरन् आत्मनः रन्ध्रम् आवृणोत् ।
,
४१०
व्याख्या—सः अतिथिः परेषां = शत्रूणां कर्माणि = सेतुकृष्यादीनि अपहन्ति = विनाशयतीति परकर्मापहः सन् स्वेषु = स्वकीयेषु कर्मसु उद्युक्तः = संलग्नः, संरक्षणतत्परः अभूत् = आसीत् किञ्च रिपून् = अमित्रान् रन्धयतीति रन्ध्रं = छिद्रम् । रन्ध्रेषु = छिद्रेषु दूषणेषु च । 'रन्धं तु दूषणे छिद्रे' इति विश्वमेदिन्यौ । प्रहरन् = प्रहारं कुर्वन्, आत्मनः = स्वस्य रन्ध्रे = छिद्रं व्यसनादिकमित्यर्थः । आवृणोत् = आच्छादयामास संवृतवानिति ।
समासः - परेषां कर्माणि परकर्माणि तेषाम् अपहः इति परकर्मापहः ।
हिन्दी - राजा अतिथि, शत्रुओं के कार्य पुल उद्योग खेती आदि को नष्ट करके, और अपने कार्यों में परिश्रमपूर्वक लग गये । और वे शत्रुओं की त्रुटियों (पर गलती आदि दोष पर) प्रहार करते हुए, अपने दोषों को छिपाते रहते थे । अर्थात् शत्रु की गलती से लाभ उठाकर उसे हानि पहुँचाए रहते थे । और अपने खूब सावधान हो जाते ।। ६१ ॥
पित्रा संवर्धितो नित्यं कृतास्त्र: सांपरायिकः ।
तस्य दण्डवतो दण्डः स्वदेहान्न व्यशिष्यत ॥ ६२ ॥
दण्डो दमः सैन्यं वा तद्वतो दण्डवतो दण्डसंपन्नस्य तस्य राज्ञः पित्रा कुशेन नित्यं संवर्धितः पुष्टः कृतास्त्रः शिक्षितास्त्रः । संपरायो युद्धम् । 'युद्धायत्योः संपरायः' इत्यमरः । तमर्हतीति सांपरायिकः । ' तदर्हति' इति ठक्प्रत्ययः । दण्डः सैन्यम् । 'दण्डो यमे मानभेदे लगुडे दमसैन्ययोः ' इति विश्वः । स्वदेहान्न व्यशिष्यत नाभिद्यत । स्वदेहेऽपि विशेषणानि योज्यानि । मूलबलं स्वदेहमिवारक्षदित्यर्थः ।
अन्वयः - दण्डवतः तस्य पित्रा नित्यं संवर्धितः कृतास्त्र: सांपरायिकः दण्डः स्वदेहात् न व्यशिष्यत ।
व्याख्या - दण्डयतीति दण्डः = दण्डयति अनेन वा दण्डः = दमः सैन्यमस्ति अस्येति दण्डवान् तस्य दण्डवतः = सैन्यसम्पन्नस्य " दण्डो दमे सैन्ये च " इति कोषः, तस्य = राज्ञः अतिथेः पित्रा = कुशेन नित्यं = निरंतरं, नियमेन भत्रं नित्यं = सततम् । संवर्धितः = वृद्धिं नीतः कृतानि = शिक्षितानि अस्त्राणि येन स कृतास्त्रः, सम्परायणं सम्परायः सम्परायं = युद्धमर्हतीति साम्प
रायिकः दण्डः = सैन्यम् । “युद्धायत्योः सम्परायः" इत्यमरः । स्वस्य = आत्मनः राशः देहः= शरीरं तस्मात् स्वदेहात् न = = नहि व्यशिष्यत = अभिद्यत । स्वसेनां स्वशरीराद्भिन्नां न गणयामास । समासः - सम्यक् वर्धितः संवर्धितः । स्वस्य देहस्तस्मात् ।
हिन्दी
- राजा कुश के प्रयत्न से निरन्तर बढ़ी हुई तथा शस्त्रास्त्र चलाने में सुशिक्षित और युद्ध करने में समर्थ सेना से सम्पन्न वह राजा अतिथि, अपनी उक्त सेना को अपने से भिन्न समान ही सेना को मानता था, उसी प्रकार उसका
माता था । अर्थात् अपने शरीर के रक्षण-पोषण करता था ।। ६२ ।।