Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
हिन्दी-भारी-भारी नितम्बों और स्तनों के कारण अपने शरीर को धारण करने में ( तैरते हुये सम्भालने में ) असमर्थ ये युवती रानियाँ, मोटे-मोटे बाजुबन्दों वाली भुजाओं से जल में बहुत कठिनता से तैर रही है। अर्थात् जलक्रीड़ा में संमिलित होने के कारण ही तैर रही हैं। अन्यथा ये तैरने में असमर्थ हैं ॥ ६०॥
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् ।
पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६१ ॥ वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारितवाश्चञ्चलाः। 'चन्चलं तरलं चैव पारिलवपरिलवे' इत्यमरः । अमी शिरीषप्रसवा एवावतंसाः कर्णभूषाः शैवाललोलाञ्जलनीलोप्रियान्। 'जलनीली तु शैवालम्' इत्यमरः। मीनांश्छलयन्ति प्रादुर्भावयन्ति । शैवालप्रियत्वाच्छिरोषेषु शैवालभ्रमात्प्रादुर्भवन्तीत्यर्थः ॥
अन्वयः-वारिविहारिणीनाम् “आसाम्" प्रभ्रंशिनः निम्नगायाः स्रोतसि पारिसवाः अमी शिरीषप्रसवावतंसाः शैवाललोलान् मीनान् छलयन्ति ।
व्याख्या-वारिणि = जले विहर्तु = विहारं कर्तु शीलं यासां ताः वारिविहारिण्यस्तासां वारिविहारिणीनाम् आसामन्तःपुरसुन्दरीणाम् प्रभ्रंशिनः = भ्रष्टाः = च्युताः इत्यर्थः, निम्नं गच्छतोति निम्नगा तस्याः निम्नगायाः = नद्याः स्रोतसि = प्रवाहे परिसवन्ते इति पारिलवाः= चञ्चलाः अमी= पुरोवर्तिनः शिरीषेभ्यः = भण्डिलेभ्यः, शिरीषपुष्पेभ्य इत्यर्थः । प्रभवन्तीति शिरीषप्रभवाः, ते एव अवंसाः = कर्णभूषणानि, इति शिरीषप्रभवावतंसाः शैवालेषु = जलनीलीषु लोलाः= उत्कण्ठिताः प्रियत्वात् ग्रहीतुमित्यर्थः, इति शैवाललोलास्तान् शैवाललोलान् मीनान् = मत्स्यान् छलयन्ति = वञ्चयन्ति। शैवालमिति मत्वा अत्तुं मीनाः शिरीषपुष्पेषु शैवालाग्रात् प्रादुर्भवन्तीत्यर्थः।।
समासः–वारिणि विहारिण्यः वारिविहारिण्यस्तासां वारिविहारिणीनाम् । शिरीषप्रसवा एव अवतंसाः इति शिरीषप्रसवावतंसाः । शैवालेषु लोलास्तान् शैवाललोलान् ।
हिन्दी-जल विहार करने वाली इन रानियों के कानों से टूट कर गिरे हुए एवं नदी के जल में तैर रहे ये शिरीष के पुष्प के बने कर्णफूल, सेवार को खाने के लिये उत्सुक मछलियों को छल रहे हैं। अर्थात् तैरते फूलों को देखकर मछली सेवार के भ्रम से इन्हें खाने को झपट रही हैं ॥ ६१ ॥
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्थमाणः संलक्ष्यते न छिदुरोऽपि हारः ॥ ६२ ॥ जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफलस्पधिंषु मौक्तिकानुकरिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये तेषु शीकरेषु शीकराणां मध्ये शोर्यमाणो गलन्हारोऽत एव छिदुरः