Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
सप्तदशः सर्गः
सनं सिंह इव वा आसनमिति सिंहासनम् , तस्य, अर्धम् = एकदेशं भजति = अधितिष्ठतीति सिंहासनाधभाक् आसीत् = अभूत् । द्वितीया = कुमुदती शच्याः=इन्द्राण्याः पारिणः = समुद्रात् जातः पारिजातः = कल्पवृक्षः तस्य अंशः = भागः खण्ड इत्यर्थः । तस्य भागिनी = हारिणी इति पारिजातांशभागिनी समान ख्यायते जनैरिति सखी = आली आसीत् ।
समासः-दिव पतिः दिवस्पतिस्तस्य दिवस्पतेः। सिहाकारमासनमिति सिहासनं तस्य अर्धमिति सिंहासनार्धम् सिंहासनार्धस्य भाक् , इति सिंहासनार्धभाक् । पारिणः जातः पारिजातः, पारिजातस्य अंशस्तस्य भागिनी इति पारिजातांशभागिनी। __ हिन्दी-उन दोनों में से ( स्वर्ग में जाकर ) कुश तो इन्द्र के सिंहासन के आधे भाग का लेने वाला हो गया। और दूसरी कुमुदती इन्द्राणी की सहेली बनकर पारिजात कल्पवृक्ष का आधा भाग ले लिया अर्थात् कुश तो इन्द्र के साथ और कुमुदती इन्द्राणी के साथ एक आसन पर जा बैठे ॥७॥
तदात्मसंभवं राज्ये मन्त्रिवृद्धाः समादधुः ।
स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः ॥ ८ ॥ सङ्ग्रामयायिनः सङ्ग्रामं यास्यतः । आवश्यकाथें णिनिः । ‘अकेनोर्भविष्यदाधमर्ण्ययोः' इति षष्ठीनिषेधः। भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाशां विपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसंभवमतिथिं राज्ये समादधुनिंदधुः ॥
अन्वयः-संग्रामयायिनः भर्तुः पश्चिमाम् आज्ञां स्मरन्तः मंत्रिवृद्धाः तदात्मसंभवं राज्ये समादधुः।
व्याख्या-संग्रामम् अवश्यं यास्यतीति सग्रामयायी तस्य संग्रामयायिनः = युद्धरथलं यास्यतः भर्तुः=स्वामिनः कुशस्य पश्चाद् भवा पश्चिमा तां पश्चिमाम् = अन्त्याम् आशाम् = आदेशम्-यदि मे युद्धे वीरगतिः स्यात्तदा पुत्रो मेऽभिषेचनीय इत्येवंरूपामित्यर्थः । स्मरन्तः = स्मरणं. कुर्वन्तः मंत्रिषु = अमात्येपु वृद्धाः स्थविराः इति मंत्रिवृद्धाः तस्य =कुशस्य आत्मनः शरीरात् सम्भवः = उत्पत्तिर्यस्य स तं तदात्मसम्भवम् =अतिथि राज्ये =राजकर्मणि, शासने निदधुः, राज्ये अतिथिमभिषिक्तवन्त इत्यर्थः ।
समास:-तस्य आत्मा तदात्मा तदात्मनः सम्भवो यस्य स तं तदात्मसम्भवम् । मंत्रिपु वृद्धाः मंत्रिवृद्धाः। संग्रामं यास्यतीति तस्य संग्रामयायिनः ।
हिन्दी-संग्राम में जाने वाले कुश ने अन्तिम आशा दी थी, “कि यदि मैं लौट न सकूँ तो मेरे पुत्र को गद्दी देना” इसको स्मरण करके वृद्धमंत्रियों ने कुश के पुत्र अतिथि को राजा बना दिया ।। ८॥
ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः । विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥ ९ ॥