Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
सप्तदशः सर्गः
न्नानि तैः कर्मनिर्वृत्तैः फलैः = साम्राज्योभगादिभिः दूरं = दूरतः पश्चात् = कालान्तरभाविनी कृता = विहिता । तदाशीर्वचनफलं तु कालान्तरे जन्मान्तरे वा भविष्यतीत्यर्थः ।
३८३
समासः - प्रीतानि मनांसि येषां ते प्रीतमनसः । कर्मभिः निर्वृत्तानि तैः कर्मनिर्वृत्तैः ।
हिन्दी - प्रसन्न मन वाले उन स्नातक ब्राह्मणों ने राजा अतिथि को जो आशीर्वाद दिया, उस आशीर्वाद को, राजा के पूर्व जन्म में किये हुए पुण्य कर्म के फल ने दूर पीछे कर दिया । अर्थात् इनके आशीर्वाद को फलीभूत होने के लिए बहुत दिन देखने पड़े। क्योंकि अपने पूर्व - पूर्व पुण्यों का राज्यादि फल तो भोग ही रहा है। इसके बाद ही आशीर्वाद का फल होगा || १८ ||
बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम्
धुर्याणां च धुरो मोक्षमदोहं चादिशद्गवाम् ॥ १९ ॥
सोऽतिथिर्बद्धानां बन्धच्छेदं वधार्हाणामवध्यताम् । धुरं वहन्तोति धुर्या बलीवर्दादयस्तेषां धुरो भारस्य मोक्षं गवामदोहं वत्सानां पानार्थं दोहनिवृति चादिशदादिदेश ॥
श्रन्वयः—सः बद्धानां बन्धच्छेदं वधार्हाणाम् अवन्यतां धुर्याणां धुरः मोक्षं गवाम् अदोह आदिशत् ।
व्याख्या - सः = अतिथिः बध्यन्ते स्म इति बद्धास्तेषां बद्धानां = सितानां बन्धस्य बन्धनस्य छेदः = मोचनं तं बन्धच्छेदं कारागारात् मोचनमित्यर्थः वधः = मारणम् अर्हन्तीति वधार्हास्तेषां वधार्हाणां = वधयोग्यानाम्, वध्यस्य भावः वध्यता न वध्यता अवध्यता ताम् अवध्यताम् = अवध्यत्वं, धुरं वहन्तीति धुर्यास्तेषां धुर्याणां = बलीवर्दानां धुरः = भारस्य मोक्षं = मोचनं गवां = धेनूनाम् दोहनं दोहः न दोहः अदोहस्तम् अदोहम् = दोहननिवृत्ति च वत्सपानार्थमित्यर्थः आदिशत् = आदिष्टवान् । उक्तानि सर्वाणि कार्याणि राज्यारोहणोत्सवे कृतवानित्यर्थः । समासः—बन्धस्य छेदः बन्धच्छेदस्तम् । न वध्यता अवध्यता ताम् । न दोह: अदोहस्तम् अदोहम् ।
हिन्दी - “ अपने राजतिलक की प्रसन्नता में" राजा अतिथि ने देने, और प्राणदण्ड पाने वालों को न मारने का आदेश दे दिया ।
कैदियों को जेल से छोड़ और बैल आदि पशुओं
बोझा न ढोने का ( अर्थात् उनके कन्धे से जूआ उतार देने का ) और गय्याओं को न दूहने का भी आदेश दे दिया । अर्थात् बछड़ों को यथेच्छ दूध पीने दिया ॥ १९ ॥
क्रीडापतत्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥ २० ॥
पञ्जरस्थाः शुकादयोऽस्यातिथेः क्रोडापतत्रिणोऽपि । किमुतान्य इत्यपिशब्दार्थः । तदादेशात्तस्यातिथेः शासनाल्लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ॥