Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
सहदशः सर्गः
दुःसहः = दुःखेन सोढु शक्यः प्रतापयत्ययेननेति प्रतापः = तेज: वेलायाः = समुद्रतटस्य अन्तः = प्रान्तस्तं वेलान्तं = सागरतटपर्यन्तमित्यर्थः । प्राप = गतः । ___ समासः-अभिषेकस्य जलानि अभिषेकजलानि तैः आप्लुता इति अभिषेकजलाप्लुता । वेलायाः अन्तस्तं वेलान्तम् ।
हिन्दी-जब तक अभिषेक के जल से भीगी हुई वेदी सूखने भी न पाई थी कि तब तक राजा का दुःसह प्रताप समुद्र के किनारों तक पहुँच गया। अर्थात् अतिशीघ्र अतिथि का प्रभाव जम गया, समुद्रान्त पृथ्वी के सबने उसका लोहा मान लिया ।। ३७ ।।
वसिष्ठस्य गुरोर्मन्त्राः सायकास्तस्य धन्विनः ।
किं तत्साध्यं यदुभये साधयेयुर्न लगताः ॥३०॥ गुरोर्वसिष्ठस्य मन्त्राः धन्विनस्तस्यातिथेः सायकाः। इत्युभये संगताः सन्तो यत्साध्यं न साधयेयुस्तत्तादृक्साध्यं किम् । न किंचिदित्यर्थः। तेषामसाध्यं नास्तीति भावः ।।
अन्वयः-गुरोः वसिष्ठस्य मंत्राः धन्विनः तस्य सायकाः उभये संगताः सन्तः यत् साध्यं न साधयेयुः तत् किम् ।
व्याख्या-गृणाति धर्मादिकं,गिरत्यज्ञानं वा गुरुस्तस्य गुरोः = उपदेशकस्य वसिष्ठस्य = महर्षेः कुलगुरोरित्यर्थः मंत्राः = देवादिसाधकाः, वेदमंत्राः धनुरस्यास्तीति धन्वी तस्य धन्विनः = चापधारिणः तस्य = अतिथेः स्यन्ति = नाशं कुर्वन्तीति सायकाः = बाणाः इति उभये संगताः = मिलिताः सन्तः यत् = वस्तु-कार्य वा साध्यं = साधनीयं न साधयेयुः = न सम्पादयेयुः तत् = तादृक् साध्यं किम् न किमप्यस्तीति भावः । तेषां कृते असाध्यं नाम न किंचिदिति भावः ।
हिन्दी-गुरु वसिष्ठ जी के मन्त्र और धनुधारी राजा अतिथि के बाण, ये दोनों मिलकर जिस काम को न कर सके, ऐसा कौन सा कार्य है अर्थात् इन दोनों का असाध्य कुछ भी नहीं था ॥ ३८॥
स धर्मस्थसखः शश्वदर्थिप्रत्यर्थिनां स्वयम् ।
ददर्श संशयच्छेद्यान्व्यवहारानतन्द्रितः ॥३९॥ धर्मे तिष्ठन्तीति धर्मस्थाः सभ्याः । 'राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः' इत्युक्तलक्षणाः । तेषां सखा धर्मस्थसखः । तत्सहित इत्यर्थः । अतन्द्रितोऽनलसः स नृपः शश्वत् अन्वहमित्यर्थः । अर्थिनां साध्यार्थवतां प्रत्यर्थिनां तद्विरोधिनां च संशयच्छेद्यान्संशयाद्धेतोश्छेद्यान्परिच्छेद्यान् । संदिग्धत्वादवश्यनिणेयानित्यर्थः । व्यवहारानृणादानादिविवादान्स्वयं ददर्शानुसंदधौ। न तु प्राविवाकमेव नियुक्तवानित्यर्थः । अत्र याज्ञवल्क्यः–'व्यवहारान्नपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह' इति ॥
अन्वयः-धर्मस्थसखः अतन्द्रितः सः शश्वत् अर्थिप्रत्यर्थिनां संशयच्छेद्यान् व्यवहारान् स्वयं ददर्श।