________________
षोडशः सर्गः
सः= एवं ज्ञातवान् अहं = कुमुदः आराधयितुं योग्यः आराधनीयस्तस्य आराधनीयस्य = उपासनीयस्य, तव =भवतः कुशस्य धृतेः = तुष्टेः प्रीतेः। "धृतियोगान्तरे धैर्य धारणाध्वरतुष्टिषु" इति विश्वः। विघातं = निघ्नं बाधामित्यर्थः कथं नाम - केन प्रकारेण सम्भाव्यमाचरेयम् = कुर्याम् । सर्वथा असंभाव्यमित्यर्थः । __ समासः-कार्यान्तरश्चासौ मानुषश्चेति कार्यान्तरमानुषः तस्य कार्यान्तरमानुषस्य । सुतः आख्या यस्याः सा तां सुताख्याम् ।
हिन्दी-राक्षसों के विनाशरूपी कार्य के लिये मनुष्य का शरीर धारण करने वाले, विष्णु के ही पुत्र नामक दूसरे शरीर तुमको मैं जानता हूँ। ( अर्थात् विष्णु के अवतार राम के पुत्र हैं यह मैं जानता हूँ ) यह सब जानने वाला मैं पूजनीय आपकी प्रसन्नता का विघात ( विनाश, रोक ) कैसे कर सकता हूँ । अर्थात् आप से वैर करना सर्वथा असंभव है ॥ ८२ ॥
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन ।
हृदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥ ८३ ॥ कराभिवातोत्थित ऊर्ध्व गतः कन्दुको यस्याः सा। कन्दुकार्यमूर्ध्व पश्यन्तीत्यर्थः । इयं बालातिकुतूहलेनात्यन्तकौतुकेनान्तरिक्षाज्ज्योतिनक्षत्रमिव । 'ज्योतिर्भद्योतदृष्टिषु' इत्यमरः । ह्रदात्पतत्त्व. दीयं जैत्राभरणमालोक्यादत्तागृह्णात् ॥
अन्वयः-कराभिघातोत्थितकन्दुका इयं बाला अतिवेगेन अन्तरिक्षात् ज्योतिः इव ह्रदात् पतत् त्वदीयं जैत्राभरणम् आलोक्य आदत्त ।
व्याख्या करेण = हस्तेन यः अभिवातः = ताडनं तेन उत्थितः= उर्ध्वगतः कन्दुकः = गेन्दुकः यस्याः सा कराभिषातोत्थितकन्दुका इयं = पुरोवर्तिनी बाला कुमारी कुतूहलमतिक्रान्तम् अतिकुतूहलं तेन अतिकुतूहलेन = अतीवौत्सुक्येन अन्तरिक्षात् = आकाशात् ज्योतिः = नक्षत्रम् इव यथा ह्रदात् = सरयूजलात् पतत् = अधोगच्छत् तव इदं त्वदीयं =भवदीयम् जैत्रं = जयशीलं च तत् आभरणं भूषणमिति जैत्राभरणम् आलोक्य = दृष्ट्वा आदत्त = गृहीतवती। कन्दुकार्थमूर्ध्व पश्यन्त्यानया पतदिदमाभरणं दृष्ट्वा गृहीतमिति न मे दोष इत्यर्थः ।
समासः–करेण अभिघातः कराभिवातः, तेन उत्थितः कन्दुकः यस्याः सा कराभिषातोत्थितकन्दुका । जैत्रञ्च तदाभरणमिति जैत्राभरणं तत् ।
हिन्दी-गेन्द खेलते समय हाथ से मारने से ऊपर को उछल गई थी गेन्द जिसकी ऐसी इस मेरी बहन ने बड़ी उत्सुकता से आकाश से गिरते हुए तारे के समान, अगाध जल से नीचे गिरते हुये तथा जिताने वाले आप के आभूषण को देखकर तुरन्त पकड़ लिया ॥८३।।
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥ ८४ ॥