________________
षोडशः सर्गः
=
३२७ प्रसिद्धामयोध्यां माम् अभ्युपैतुं = प्राप्तुम् अर्हसि = योग्योसि । कथमिवेत्याह- ते = तव गुरु:: पिता रामः तां = प्रसिद्धां कारणात् = भूभारहरणरूपात् मानुषी = मानवी तां कारणमानुषीं तनुं = शरीरं = रामरूपामित्यर्थः हित्वा = त्यक्त्वा परमश्चासौ आत्मा परमात्मा, परमात्मनः परमेश्वरस्य मूर्तिः = स्वरूपं तां परमात्ममूर्ति यथा = इत्र, विष्णुमूर्तिमिवेत्यर्थः ।
=
=
सम स्पः राज्ञां धानी राजधानी, कुलस्य राजधानी, तां कुलराजधानीम् । कारणात् मानुषी तां कारणमानुषीम् । परमश्चासौ आत्मा परमात्मा, तस्य मूर्तिः तां परमात्ममूर्तिम् ।
हिन्दी - इसलिये जिस प्रकार तुम्हारे पिता राम ने भूभार हरण करने के लिये मनुष्य शरीर धारण किया, और उस शरीर को छोड़कर परमात्मा के स्वरूप ( विष्णुरूप ) को प्राप्त किया, उसी प्रकार तुम भी इस कुशावती को त्याग कर अपने कुल की राजधानी मुझ अयोध्या में आने के योग्य हो । अर्थात् तुम्हें अयोध्या में आकर रहना चाहिये ॥ २२ ॥
तथेति तस्याः प्रणयं प्रतीतः प्रत्यग्रहीत्प्राग्रहरो रघूणाम् । पूरप्यभिव्यक्तमुखप्रसादा शरीरबन्धेन तिरोबभूव ॥ २३ ॥
रघूणां प्राग्रहरः कुशस्तस्याः पुरः प्रणयं याच्यां प्रतोतो हृष्टः संस्तथेति प्रत्यग्रहीत्स्वी - कृतवान् पूः पुराधिदेवताप्यभिव्यक्तमुखप्रसादा सती । इष्टलाभादिति भावः । शरीरबन्धेन शरीरयोगेन करणेन तिरोबभूवान्तर्दधे । मानवं रूपं विहाय दैवं रूपमग्रहीदित्यर्थः ॥
अन्वयः - रघूणां प्राग्रहरः तस्याः प्रणयं प्रतीतः सन् तथा इति प्रत्यग्रहीत्, पूः अपि अभिव्यक्तःमुखप्रसादा सती शरीरबन्धेन तिरोबभूव ।
=
व्याख्या— रघूणां = रघुकुलोद्भवानां प्राग्रे हरतीति प्राग्रहरः = श्रेष्ठः कुशः तस्याः पुरः अयोध्यायाः प्रणयं = प्रश्रयं सप्रेमप्रार्थनामित्यर्थः । " प्रश्रयप्रणयौ समौ” इत्यमरः । प्रतीतः : प्रसन्नः सन् तथा = तथास्तु, इति = एवं प्रत्यग्रहीत् == स्वीचकार, पूः = नगराधिदेवता अपि अभिव्यक्तः = प्रकटीकृतः मुखस्य = आननस्य प्रसादः = प्रसन्नता नैर्मल्यम् यया सा अभिव्यक्तमुखप्रसादा सती “प्रसादस्तु प्रसन्नता" इत्यमरः । मनोरथसिद्धेरिति भावः । शरीरस्य देहस्य बन्धः = योगस्तेन शरीरबन्धेन करणेन तिरोबभूव = अन्तर्दधे । मनुष्यशरीरं त्यक्त्वा दैवीं तनुमग्रहीदित्यर्थः ।
समासः - अभिव्यक्तः मुखस्य प्रसादो यया सा अभिव्यक्तमुखप्रसादा । शरीरस्य बन्धः शरीरबन्धस्तेन शरीरबन्धेन ।
हिन्दी - रघुवंशीयों में श्रेष्ठ राजा कुश ने प्रसन्न होकर उस अयोध्या नगरो की प्रार्थना को एवमस्तु कहकर स्वीकार ( कर ली ) और वह अयोध्या की अधिष्ठात्री देवी भी अपनी प्रसन्नता को प्रकट कर, मानवरूप को छोड़, दैवीरूप धारण कर छिप गई ॥ २३ ॥
तदद्भुतं संसदि रात्रिवृत्तं प्रातर्द्विजेभ्यो नृपतिः शशंस ।
श्रुत्वा त एनं कुलराजधान्याः साक्षात्पतित्वे वृतमभ्यनन्दन् ॥ २४ ॥