Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
षोडशः सर्गः
३३१
समासः-न पर्याप्तवती अपर्याप्तवती। विष्णोः पदमिति विष्णुपदं तत् । रजसः छलमिति रजश्छलम् तेन रजश्छलेन ।।
हिन्दी-चलते हुए राजा कुश की सेनाओं की पीड़ा ( भार के दुःख ) को सहन करने में असमर्थ हुई सी पृथिवी, मानो धूली के बहाने विष्णु के दूसरे पद ( आकाश ) में चढ़ गई। विष्णु का एक स्थान क्षीरसागर है और दूसरा स्थान आकाश है। दोनों विष्णुपद कहे जाते हैं ॥ २८॥
उद्यच्छभाना गमनाय पश्चात्पुरो निवेशे पथि च ब्रजन्ती।
सा यत्र सेना ददृशे नृपस्य तत्रैव सामग्र्यमतिं चकार ॥ २९ ॥ पश्चात्कुशावत्याः सकाशाद्गमनाय प्रयाणाय तथा पुरोऽये निवेशे निमित्ते । निवेष्टु चेत्यर्थः । उद्यच्छमानोद्योगं कुर्वती। 'समुदाभ्यो यमोऽग्रन्थे' इत्यस्य सकर्मकाधिकारत्वादात्मनेपदम् । पथि च व्रजन्ती नृपस्य कुशस्य सा सेना यत्र पश्चात्पुरो मध्ये वा ददृशे तत्रैव सामग्र्यमतिं कृत्स्नताबुद्धिं चकार । अपरिमिता तस्य सेनेत्यर्थः ॥
अन्वयः–पश्चात् गमनाय पुरः निवेशे उद्यच्छमाना, पथि च व्रजन्तो नृपस्य सा सेना यत्र ददृशे तत्र एव सामग्र्यमतिं चकार ।।
व्याख्या-पश्चात् = कुशावत्याः नगर्याः सकाशात् गमनाय = प्रयाणाय प्रयातुमित्यर्थः । तथा = अन्यच्च पुरः = अग्रे निविशन्तेऽत्रेति निवेशः = तस्मिन् निवेशे शिविरे, तात्कालिकसैन्यवसतौ इत्यर्थः “निवेशः शिविरः शण्ढे" इत्यमरः। उद्यच्छमाना = उद्योगं कुर्वती, पथि =मार्गे च व्रजन्ती=चलन्ती नृपस्य = राज्ञः कुशस्य सा= विशाला सेना यत्र = यस्मिम् पश्चात् , पुरो मध्ये वा ददृशे= दृष्टा तत्रैव = तस्मिन्नेव रथाने समग्रस्य भावः कर्म वा सामग्र्यं, सामग्र्यस्य - पूर्णतायाः मतिः= बुद्धिस्तां सामग्र्यमतिं चकार = कृतवती, कुशस्य अपरिमिता सेना आसी दित्यर्थः।
हिन्दी-पहले=कुशावतो से चलती हुई तथा आगे पड़ाव डालने के लिये उद्योग करती हुई और मार्ग में चलती हुई, राजा कुश की वह विशाल सेना जहाँ भी देखी गई, वहीं पर पूरी सेना जान पड़ती थी। अर्थात् कुश की सेना अपार थी, अतः जहाँ जो टुकड़ी दीखती थी वहीं पर पूरी सेना मालूम पड़तो थी ॥ २९ ॥
तस्य द्विपानां मदवारिसेकात्खुराभिघाताच्च तुरंगमाणाम् ।
रेणुः प्रपेदे पथि पङ्कभावं पङ्कोऽपि रेणुत्वमियाय नेतुः ॥ ३० ॥ नेतुस्तस्य कुशस्य द्विपानां मदवारिभिः सेकात्तुरंगमाणां खुराभिघाताच्च यथासंख्यं पथि रेणू रजः पङ्कभावं पङ्कतां प्रपेदे पकोऽपि रेणुत्वमियाय । तस्य तावदस्तीत्यर्थः ॥
अन्वयः-नेतुः तस्य द्विपानां मदवारिसेकात् तुरंगमाणां खुराभिघातात् च पथि रेणुः पङ्कभावं प्रपेदे पंकः अपि रेणुत्वम् इयाय ।