Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
षोडशः सर्गः
हाथी को सच्चा समझकर अब वहाँ घूमने वाले सिंह ने उसमें पंजा मारा और वह चित्र टूटाफूटा पड़ा है ॥ १६ ॥
स्तम्भेषु योषित्प्रतियातनानामुत्क्रान्तवर्णक्रमधूसराणाम् ।
स्तनोत्तरीयाणि भवन्ति सङ्गान्निमोकपट्टाः फणिभिर्विमुक्ताः ॥ १७ ॥ उत्क्रान्तवर्णक्रमा विशीर्णवर्णविन्यासास्ताश्च धूसराश्च यास्तासां स्तम्भेष योषित्प्रतियातनानां स्त्रीप्रतिकृतीनां दारुमयीणां फणिभिर्विमुक्ता निमोकाः कञ्चका एव पट्टाः । 'समौ कञ्चकनिर्मोको' इत्यमरः । सङ्गासक्तत्वात्स्तनोत्तरीयाणि स्तनाच्छादनवस्त्राणि भवन्ति ।
अन्वयः-उत्क्रान्तवर्णक्रमधूसराणाम् स्तम्भेषु योषित्प्रतियातनानाम् , फणिभिः विमुक्ताः निमोकपट्टाः संगात् स्तनोत्तरीयाणि भवन्ति ।
व्याख्या-उत्क्रान्तः = विशीर्णः नष्ट इत्यर्थः वर्णानां = रागाणां, नीलपीतादोनामित्यर्थः क्रमः = विन्यासः यासु ताः उत्क्रान्तवर्णक्रमाः, उत्क्रान्तवर्णक्रमाश्च ताः धूसराः = ईषत्पाण्डुवर्णाः तासाम् उत्क्रान्तवर्णक्रमधूसराणाम् “ईषत्पाण्डुस्तु धूसरः” इत्यमरः । स्तम्भेषु = यूपेषु योषति, युष्यते वा योषित् । योषितां = स्त्रीणां प्रतियातनाः= प्रतिमास्तासां योषित्प्रतियातनानाम् दारुमयीणामित्यर्थः फणा अस्ति येषां ते फणिनस्तैः फणिभिः सः विमुक्ताः = परित्यक्ताः निश्चयेन मुच्यन्ते इति निमोंकाः= कञ्चुकाः सर्पत्वच इत्यर्थः “समौ कञ्चुकनिमोकौ” इत्यमरः । एव पट्टाः = वस्त्राणि, इति निर्मोकपट्टाः, संगात् = संसक्तत्वात् स्तनानां = कुचानाम् उत्तरीयाणि = आच्छादनवस्त्राणि भवन्ति = जायन्ते।
समासः-उत्क्रान्तः वर्णस्य क्रमः यासां ताः उत्क्रान्तवर्णक्रमाः ताश्च ताः धुसरास्तासाम् उत्क्रान्तवर्णक्रमधूसराणाम्। योषितां प्रतियातनाः, तासां योषित्प्रतियातनानाम् । निमोकाः एव पट्टाः इति निर्मोकपट्टाः । स्तनानाम् उत्तरीयाणि स्तनोत्तरीयाणि।
हिन्दी-रंगों के उड़ जाने ( खराब होने ) से धूसरित ( भद्दे रंग को ) हो गई हुई, चन्दन के खम्भों पर बनी स्त्रियों की मूर्तियों में, साँपों से छोड़ी गई केंचुली रूपी वस्त्र के सट जाने से स्तनों को ढंकने के उत्तरीय ( दुपट्टे ) हो रहे हैं। अर्थात् आजकल नगरी में, खम्भों पर जो स्त्रीमूर्तियाँ बनी हैं वे भद्दे रंग की हो गई हैं और साँप की केंचुल जो उन पर चिपक गई है ऐसी प्रतीत हो रही है मानो स्तन ढंकने की चुन्नी हो ॥ १७ ॥
कालान्तरश्यामसुधेषु नक्तमितस्ततो रूढतृणाङ्करेषु।
त एव मुक्तागुणशुद्धयोऽपि हर्येषुमूर्च्छन्ति नचन्द्रपादाः ॥ १८ ॥ कालान्तरेण कालभेदवशेन श्यामसुधेषु मलिनचूणेष्वितस्ततो रूढतृणाङ्कुरेषु हम्र्येषु गृहेषु नक्तं रात्रौ मुक्तागुणानां शुद्धिरिव शुद्धिः स्वाच्छयं येषां तादृशा अपि। ततः पूर्व ये मूर्च्छन्ति स्म त एव चन्द्रपादाश्चन्द्ररश्मयः। ‘पादा रश्म्यङ्घितुर्यांशाः' इत्यमरः । न मूर्च्छन्ति । न प्रतिफलन्तीत्यर्थः॥