Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
३२२
रघुवंशे
दिग्धं = लिप्तमिति अस्रदिग्धं पदं = चरणः निधीयते = स्थाप्यते। यत्र पुरा रमण्यः संचरन्ति स्म तत्र सम्प्रति व्याघ्राः भ्रमन्तीत्यर्थः।।
समासः-सोपानानां मार्गास्तेषु सोपानमार्गेषु। रागेण सहिताः सरागास्तान् सरागान् । हताः न्यंकवः यस्ते तैः हतन्यंकुभिः । अस्रण दिग्धमिति अस्रदिग्धम् ।
हिन्दी-"और पहले नगर की" जिन सीढ़ियों के मार्ग में सुन्दरियाँ महावर से रँगे हुए अपने चरण रखती थी अर्थात् पैर रखती चलती थीं, अब उन्हा मेरे रास्तों, सड़कों पर, तुरन्त मृगों को मारने वाले बाघ खून से सने ( भींगे ) पैर रखते हैं ।। १५ ॥
चित्रद्विपाः पद्मवनावतीर्णाः करेणुभिर्दत्तमृणालभङ्गाः ।
नखाङ्कशाघातविभिन्नकुम्माः सरब्धसिंहप्रहृतं वहन्ति ।। १६ ।। पद्मवनमवतीर्णाः प्रविष्टाः। तथा लिखिता इत्यर्थः। करेणुभिः करिणीभिः । चित्रगताभिरेव । 'करेणुरिभ्यां स्त्री नेभे' इत्यमरः । दत्तमृणालभङ्गाश्चित्रद्विपा आलेख्यमातङ्गाः। नखा एवाङ्कुशाः तेषामाधातैविभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं कुपितसिंहप्रहारं वहन्ति ॥
अन्वयः-पद्मवनावतीर्णाः करेणुभिः दत्तमृणालभंगाः चित्रद्विपाः, नखांकुशाघातविभिन्नकुम्भाः सन्तः संरब्धसिंहप्रहृतं वहन्ति ।
व्याख्या-पद्मानां = कमलानां वनं = काननमिति पद्मवनं, पद्मवनम् अवतीर्णाः = प्रविष्टाः इति पद्मवनावतीर्णाः, कमलवनगतत्वेन चित्रे लिखिताः इत्यर्थः। करेणुभिः =करिणीभिः, चित्रेलिखिताभिरेवेत्यर्थः दत्ताः = भक्षणाय प्रदत्ताः मृणालानां बिसानां भंगाः =खण्डाः येभ्यस्ते दत्तमृणालभंगाः चित्रे - आलेख्ये अर्पिता द्विपाः = गजाः इति चित्रद्विपाः, नखाः = कररुहाः एव अंकुशाः = सृणयः इति नखांकशाः, नखांकुशानाम् आघाताः = मारणानि तैः विभिन्नाः = विदोर्णाः, स्फुटिताः कुम्भाः = मस्तकाः येषां ते नखांकुशाघातविभिन्नकुम्भाः सन्तः संरब्धाः = कुपिताः विक्षुब्धाः च ते सिंहाः -- केसरिणः इति संरब्धसिंहाः तेषां प्रहृतः =प्रहारस्तं संरब्धसिंहप्रहृतं वहन्ति = धारयन्ति ।
समासः-पमानां वनमिति पद्मवनं तत्र अवतीर्णाः इति पद्मवनावतीर्णाः। मृणालानां भंगाः मृणालभंगाः, दत्ताः मृणालभंगाः येभ्यस्ते दत्तमृणालभंगाः। चित्रे ( लिखिताः ) द्विपाः चित्रद्विपाः। नखाः एव अंकुशाः नखांकुशाः, नखांकुशानाम् आवाताः नखांकुशापातास्तैः विभिन्नाः कुम्भाः येषां ते नखांकुशाघातविभिन्नकुम्भाः। संरब्धाश्च ते सिंहाः संरब्धसिंहास्तेषां प्रहृतं, संरब्धसिंहप्रहृतम्।
हिन्दी-"नगरी के भवनों की दीवारों पर जिन चित्रों में ऐसा दिखाया गया कि" कमलों के वन में घुसे हुए ( कमल वाले तालाब में ) हथिनियाँ अपने संड से जिन्हें कमलनाल के टुकड़े दे रही हैं, ऐसे चित्रों में लिखे हुए हाथी, सिंह के नखरूपी अंकश के लगने से फूटे मस्तक वाले होकर क्रोधी सिंह के प्रहार को धारण किये हुए हैं। अर्थात् दीवारों पर लिखे