________________
षोडशः सर्गः
हिन्दी-सज्जन और साधारण प्रजा के लिये जिन की राज्यसम्पत्ति है तथा इन्द्र के समान तेजस्वी और शत्रुओं को जीतनेवाले तथा बन्धुबान्धव वाले, ऐसे महाराज कुश के सामने जयजयकार करती हुई वह स्त्री हाथ जोड़कर खड़ी हो गई। अर्थात् महाराज की जय हो कहकर हाथ जोड़ लिये ॥ ५ ॥
अथानपोढार्गलमप्यगारं छायामिवादर्शतलं प्रविष्टाम् ।
सविस्मयो दाशरथेस्तनूजः प्रोवाच पूर्वार्धदिसृष्ट तल्पः ॥ ६ ॥ अथ सविस्मयः पूर्वार्धन शरीरपूर्वभागेन विसृष्टतल्पस्त्यक्तशय्यो दाशरथेस्तनूजः कुशः । अनपोढार्गलमनुद्घाटितविष्कम्भमपि । 'तद्विष्कम्भोऽर्गलं न ना' इत्यमरः । अगारम् । आदर्शतलं छायामिव प्रविष्टां तां वनितां प्रोवाचावदत् ॥
अन्धयः-अथ सविस्मयः पूर्वार्धविसृष्टतल्पः दाशरथेः तनूजः अनपोढार्गलम् अपि अगारम् आदर्शतलं छायाम् इव प्रविष्टां प्रोवाच ।
व्याख्या-अथ = अनन्तरम् विस्मयेन = आश्चर्येण सहितः इति सविस्मयः पूर्व च तदर्धमिति पूर्वार्ध, तेन पूर्वार्धन = कायस्य पूर्वभागेन विसृष्टं = त्यक्तं तल्पं =शय्या येन स पूर्वार्धविसृष्टतल्पः दशरथस्य अपत्यं पुमान् दाशरथिस्तस्य दाशरथेः = रामस्य तन्वाः जातः तनूजः = पुत्रः कुशः न अपोढा अनपोढा=अनुद्घाटिता अर्गला कपाटविष्कम्भः यस्य तत् अनपोढार्गलम् तत् , "तद्विष्कम्भोऽर्गलं न ना" इत्यमरः । अपि, अगारं = गृहम् आदृश्यते रूपमत्र सः आदर्शः, आदर्शस्य = दर्पणस्य तलं स्वरूपमिति आदर्शतलं छायां = कान्तिम् इव = यथाप्रविष्टां =कृतप्रवेशां तांवनितां प्रोवाच = उक्तवान् ।
समासः---विस्मयेन सहितः सविस्मयः। पूर्व तदर्धमिति पूर्वार्ध, पूर्वार्धेन विसृष्टं तल्पं येन स पूर्वार्धविसृष्टतल्पः । न अपोढा अनपोढा, अनपोढा अर्गला यस्यतत् अनपोढार्गलम् तत् । आदर्शस्य तलमिति आदर्शतलम् ।
हिन्दी-इसके पश्चात् आश्चर्यचकित तथा शरीर के ऊपरी भाग से पलंग को छोड़नेवाले (अर्थात् धड़ से ऊपर उठे हुए) दशरथात्मज श्री राम के पुत्र कुश, दर्पण ( शीशे ) में मुख के प्रतिबिम्ब के समान उस घर में भीतर आई हुई उस महिला से बोले, जिसके किवाड़ ( पल्ले ) अन्दर से बन्द थे । यही आश्चर्य का कारण था ॥ ६ ॥
लब्धान्तरा सावरणेऽपि गेहे योगप्रभावो न च लक्ष्यते ते । बिमर्षि चाकारमनिर्वृतानां मृणालिनी हैममिवोपरागम् ॥ ७ ॥ का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥ ८ ॥ युग्मम् । सावरणेऽपि गेहे लब्धान्तरा लब्धावकाशा। त्वमिति शेषः । योगप्रभावश्च ते न लक्ष्यते । मृणालिनी हैमं हिमकृतमुपरागमुपद्रवमिव । अनिर्वृतानां दुःखितानामाकारं बिभर्षि च ।