Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
षोडशः सर्गः
३१३
पालकाप्यः--'सूर्यस्याण्डकपाले द्वे समानीय प्रजापतिः। हस्ताभ्यां परिगृह्याय सप्त सामान्यगायत । गायतो ब्रह्मणस्तस्मात्समुत्पेतुर्मतङ्गजाः ॥' इति ॥
अन्वयः-चतुर्भुजांशप्रभवः दानप्रवृत्तेः अनुपारतानां तेषां सः सामयोनिः सुरद्विपानाम् वंशः इव अष्टधा भिन्नः सन् विप्रससार ।
व्याख्या--चत्वारो भुजाः यस्य स चतुर्भुजः, भुंक्ते, भुनक्ति वा भुजः चतुर्णा = धर्मार्थकाममोक्षाणा भुजः चतुर्भुजः इति वा। चतुर्भुजस्य = विष्णोः अंशाः = रामादयः, इति चतुर्भुजाशाः, चतुर्भुजांशाः प्रभवाः = कारणानि, जनकाः, यस्य स चतुर्भुजांशप्रभवः दीयते यत्तत् दान, दानस्य = त्यागस्य, मदजलस्य प्रवृत्तिः = व्यापारः, प्रवाहश्च इति दानप्रवृत्तिः तस्याः दानप्रवृत्तेः न उपारताः =न विश्रान्ताः इति अनुपारतास्तेषाम् अनुपारतानां, सदादानकरणे प्रवृत्तानां, मदप्रस्राविणां च गजपक्षे । तेषां = कुशलवादीनां सः = वंशः, स्यति पापमिति साम = सामवेदः योनिः = कारणं यस्य स सामयोनिः, दानप्रवृत्तेरनुपारतानां, मदस्राविणामित्यर्थः । सुराणां = देवानां द्विपाः = गजास्तेषां सुरद्विपानां = दिग्गजानां वंशः = कुलम् इव = यथा अष्टभिः प्रकारैः अष्टधा, भिन्नः = पृथग्भूतः सन् विप्रससार = विस्तृतो जातः ।
समासः-चत्वारः भुजाः यस्य स चतुर्भुजस्तस्य अंशाः प्रभवाः यस्य स चतुर्भुजांशप्रभवः । दानस्य प्रवृत्तिः तस्या दानप्रवृत्तेः। न उपारताः अनुपारतास्तेषाम् अनुपारतानाम् । सुराणां द्विपाः सुरद्विपा स्तेषां सुरद्विपानाम् । सामयोनिः यस्य स सामयोनिः ।
हिन्दी--विष्णु के अंश रामादि से उत्पन्न, और दान देने वाले, उन कुशलव आदि का कुल, उसी प्रकार आठ कुलों में बँटकर फैल गया । जिस प्रकार मद वर्साने वाले, मदोन्मत्त दिग्गजों का कुल, जो कि सामवेद से उत्पन्न हुआ था, आठ प्रकार से विभक्त होकर फैल गया था। प्रजापति ने सूर्य के दो अण्डकपाल हाथ में लेकर सात साम का गान किया। तब गाते हुए ब्रह्मा से मतंगज उत्पन्न हुए। और वे आठ भागों में बट गये ऐसा पालकाप्य का मत है। अतः सामयोनि कहा है ॥ ३॥
अथार्धरात्रे स्तिमितप्रदीपे शय्यागृहे सुप्तजने प्रबुद्धः ।।
कुश: प्रवासस्थकलत्रवेषामदृष्टपूर्वां वनितामपश्यत् ॥ ४ ॥ अथ । अर्ध रात्ररर्धरात्रः। 'अर्थ नपुंसकम्' इत्येकदेशसमासः । 'अहःसवैकदेशसंख्यात[ ण्याच्च रात्रेः' इति समासान्तोऽच्प्रत्ययः । 'रात्रालाहाः पुंसि' इति नियमात्पुंस्त्वम्। अर्धरात्रे निशीथे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः। न तु सुप्तः। कुशः प्रवासस्थकलत्रवेषां प्रोषितभर्तृकावेषाम् । अदृष्टा पूर्वमित्यदृष्टपूर्वां ताम् । सुप्सुपेति समासः । वनितामपश्यत् ॥
अन्वयः-अथ अर्धरात्रे स्तिमितप्रदीपे सुप्तजने शय्यागृहे प्रबुद्धः कुशः प्रवासस्थकलत्रवेषाम् अदृष्टपूर्वा वनिताम् अपश्यत् ।