________________
रघुवंशे
समासः—पुत्रेण समागतः पुत्रसमागतः । पूर्वम् उदिता इति पूर्वोदिता तां पूर्वोदिताम् । यमराज से भी रक्षा
हिन्दी - पुत्र के मिल जाने पर ( जीवित होते ही ) करने वाले उस राम की पहले ( पुत्र के मरने पर ) की गई अर्थात् . पुत्र ' के जी उठने पर ब्राह्मण ने राम की बड़ी स्तुति, प्रशंसा की
ब्राह्मण ने, निन्दा को
स्तुति से धो दिया ।
॥
५७ ॥
२८४
तमध्वराय मुक्ताश्वं रक्ष. कपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ ५८ ॥
अध्वरायाश्वमेधाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्वराः सुग्रीवविभीषणादयो राजानश्च मेघा अम्भोभिः सस्यमिव उपायनैरभ्यवर्षन् ॥
अन्वयः - अध्वराय मुक्ताश्वं तं रक्षः कपिनरेश्वराः, मेघाः अम्भोभिः सस्यम् इव उपायनैः अभ्यवर्षन् ।
व्याख्या--न ध्वरति, अध्वानं रातीति वा अध्वरस्तस्मै अध्वराय = अश्वमेधयज्ञाय मुक्तः = त्यक्तः अश्वः = तुरगः येन स तं मुक्ताश्वं तं = रामचन्द्रं, रक्षांसि = राक्षसाः = कपयः = वानराश्चनराः = मनुष्याश्चेति रक्षः कपिनराः तेषाम् ईश्वराः इति रक्षः कपिनरेश्वराः = सुग्रीवविभीषणादयः भूपालाश्च मेघाः = अम्भोदाः अम्भोभिः = जलैः सस्यं = धान्यम् इव = यथा उपायनैः = उपहारैः अभ्यवर्षन्= अभिवर्षितवन्तः । मेघाः यथा जलैः सस्येषु वृष्टिं कुर्वन्ति, एवं सर्वे भूपालाः रामाय उपायनरूपेण धनवर्षणमकुर्वन् इत्यर्थः । धनानि दत्तवन्तः ।
समासः—–मुक्तः अश्वः येन स तं मुक्ताश्वम् । रक्षांसिच कपयश्चनराश्चेति रक्षः कपिनराः, तेषामीश्वराः, रक्षःकपिनरेश्वराः ।
हिन्दी - - अश्वमेध यज्ञ करने के लिये, यज्ञ के घोड़े को ( दिग्विजय के लिये ) छोड़ने वाले राम के सामने सुग्रीव, विभीषण और राजाओं ने उसी प्रकार “भेंट देकर " धन की वर्षा की, जिस प्रकार मेघ धान के खेतों में जल वर्षाते हैं ॥ ५८ ॥
दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ ५९ ॥
निमन्त्रिता आहूता महर्षयश्च भूम्याः संबन्धीनि भौमानि धिष्ण्यानि स्थानान्येव न । 'धिष्ण्यं स्थाने गृहे मेऽग्नौ' इत्यमरः । किंतु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः ॥
अन्वयः -- निमंत्रिताः महर्षयः च भौमानि धिष्ण्यानि एव न " किन्तु ” ज्योतिर्मयानि अपि धिष्ण्यानि हित्वा दिग्भ्यः एनम् अभिजग्मुः ।
व्याख्या — निमंत्रिताः = आहूताः महान्तश्च ते ऋषयः महर्षयः = परमर्षयः च भूमेः = पृथिव्याः इमानि भौमानि = पार्थिवानि धिष्ण्यानि = स्थानानि, गृहाणि एव न = नहि, किन्तु