Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
__ व्याख्या-जनानां समूहः जनता= लोकसमूहः वयः= आयुः वेषः=नेपथ्यं, च प्रसाधानमित्यर्थः। इति वयोवेषः ( एकत्रराजवेषः अन्यत्र ब्रह्मचारिवेष इत्यर्थः। विरुद्धं सम्यक् वदति तच्छीलमिति विसम्वादि ) वयोवेषाभ्यां विसम्वादि = विरुद्धमिति वयोवेषविसम्वादि तदा तस्मिन् समये तयोः= कुशलवयोः रामस्य =रामचन्द्रस्य च सदृशस्य भावः कर्म वा सादृश्यं = सारूप्यं प्रेक्ष्य = दृष्ट्वा अक्षिणां=नेत्राणां कम्पः= चलनमिति अक्षिकम्पः, नास्ति अक्षिकम्पः यस्मिन् कर्मणि तत् नाक्षिकम्पं यथास्यात्तथा व्यतिष्ठत = अतिष्ठत् । आश्चर्यान्निनिमेषमद्राक्षीदित्यर्थः।
समासः-वयश्च वेषश्चेति वयोवेषौ, वयोवेषाभ्यां विसम्वादि इति वयोवेषविसम्वादि । अक्षिणां कम्पः अक्षिकम्पः । नास्ति अक्षिकम्पः यस्मिन् कर्मणि तत् नाक्षिकम्पम् ।
हिन्दी-जनता ( राजसभा में एकत्रित प्रजासमूह ) उस समय लव-कुश और राम के सादृश्य ( रूपरंग, आकृति सब एक-सा ) को देखकर बिना पलक गिराए एकटक देखती रह गई। भेद केवल इतना था कि वे दोनों बालक तथा ब्रह्मचारी आश्रमवासी थे, और राम जी युवा एवं राजसी वेषभूषा में थे। अवस्था और वेष से ही वे विलक्षण भिन्न थे ॥ ६७ ॥
उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ ६८ ॥ लोको जन उभयोः कुमारयोः प्रावीण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया नैःस्पृह्येण विसिष्मिये ॥
अन्वयः-लोकः उभयोः प्रावीण्येन तथा न विसिष्मिये, यथा नृपते प्रीतिदानेषु वीतस्पृहतया विसिष्मये। ___ व्याख्या-लोक्यते इति लोकः =जनः। "लोकस्तु भुवने जने" इत्यमरः। उभयोः= लवकुशयोः, बालकयोः प्रवीणस्य भावः कर्म वा प्रावीण्यं तेन प्रावीण्येन = गीतिनैपुण्येन तथा तेन प्रकारेण न विसिष्मिये = विष्मयं न प्राप, यथा = येन प्रकारेण नृणां =मनुष्याणां पतिः राजा इति नृपतिः=रामस्तस्य नृपतेः प्रीत्या = प्रेम्णा दानानि = विश्राणनानि, वितरणानि तेषु प्रीतिदानेषु वीता = विगता स्पृहा = अभिलाषा ययोस्तौ वीतस्पृहौतयोः भावस्तत्ता वीतस्पृहता तया वीतस्पृहतया, इच्छाराहित्येन इत्यर्थः विसिष्मिये = आश्चर्यमवाप । रामेण सप्रेम यत् ताभ्यां प्रदत्तं तत् परावर्तितम् न स्वीकृतमित्यर्थः ।
समासः-प्रीत्या दानानि तेषु प्रीतिदानेषु । वीता स्पृहा ययो स्तौ वीतस्पृहौ तयोः भावस्तत्ता तयावीतस्पृहतया । नृणां पतिः नृपतिः ।
हिन्दी-जनता उन दोनों के गाने के कौशल से उतनी विस्मय को प्राप्त नहीं हुई। "जैसी कि इस बात पर हुई कि" राजा राम ने प्रेम से जो दान दिया था, उसमें वे निस्पृह रहे। अर्थात् सब दान उन्होंने लौटा दिया। इससे बड़ा ही आश्चर्य हुआ ॥ ६८ ॥