________________
पञ्चदशः सर्गः
३०७
यित्वा गृहवर्ज " णमुल् । अयोध्यया = साकेतेन अन्वितः = युक्तः, अनुयातः उदक् = उत्तरस्यां दिशि प्रतस्थे = चचाल ।
समासः - रिपवः एव नागाः, इति रिपुनागास्तेषाम् अंकुशः इति रिपुनागांकुशस्तं रिपुनागांकुशम् । सु उक्तानि तैः सूक्तैः । जनिता: अश्रुलवाः येन स तं जनिताश्रुलवम् । स्थिरा धीः यस्य स स्थिरधीः। अनुजैः सह सानुजः । पत्यौ वात्सल्यमिति पतिवात्सल्यं तस्मात् पतिवात्सल्यात् । अग्निः पुरःसरः यस्य सः अग्निपुरःसरः ।
हिन्दी - निश्चित बुद्धि वाले ( पक्के इरादे के ) राम ने शत्रुरूपी हाथियों के लिये अंकुश के समान ( अर्थात् शत्रुरूपी हाथी को अपने वश में करने वाले ) कुश को कुशावती में रखकर और अपने सुन्दर मधुर वचनों से सज्जनों की आँखों में आँसू पैदा कर देने वाले ( अर्थात् मधुर वचनों से वश में कर लेने वाले लत्र को शरावती में रखकर ( वहाँ-वहाँ का राज्य देकर ) अपने के साथ अग्निहोत्र की अग्नि को आगे करके रामजी उत्तर की ओर चल पड़े। तथा राजाराम के प्रति अनुराग होने के कारण अपने-अपने घरों को छोड़ कर सारे अयोध्यावासी भी राम के पीछे-पीछे चल पड़े ॥ ९७ ॥ ९८ ॥
जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः । कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥ ९९ ॥
चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिवृष्टां तस्य रामस्य पदवीं मार्ग जगृहुः। तेऽप्यनुजग्मुरित्यर्थः ॥
अन्वयः - चित्तज्ञाः हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिः अभिवृष्टां तस्य पदवीम् जगृहु: ।
=
व्याख्या - चित्तं : = मनः जानन्ति = विदन्तीति चित्तज्ञाः, रामस्य मानसिकभावविदः इत्यर्थः। हरयः = वानराः सुग्रीवादयश्च राक्षसाः = विभीषणादयश्चेति हरिराक्षसाः कदति: हिनस्ति विरहिणः कदम्बः । मुञ्चन्ति = त्यजंति कलिकात्वमिति मुकुलाः । कदम्बस्य = - नीपस्य मुकुलाः = कुड्मला स्तद्वत् स्थूलानि = पीवराणि, इति कदम्बमुकुलस्थूलानि तैः कदम्बमुकुल - स्थूलैः प्रजानां = जनानाम् अश्रूणि = नेत्रजलानि तैः प्रजाश्रुभिः अभितः = सर्वतः वृष्टा = आद्रीकृता ताम् अभिवृष्टां तस्य = रामस्य पद्यतेऽनया सा तां पदवी = मार्गम् जगृहु: = गृहीवन्तः । वानरराक्षसा अपि तमनुययुः ।
,
समासः - हरयश्च राक्षसाश्चेति हरिराक्षसाः । कदम्बस्य मुकुलाः कदम्बमुकुला स्तद्वत् स्थूलानि तैः कदम्बमुकुलस्थूलैः । प्रजानाम् अश्रूणि तैः प्रजाश्रुभिः ।
हिन्दी - रामचन्द्र जी के मन की बात जानने वाले बन्दर तथा राक्षसों ने भी उनके उस मार्ग को ग्रहण किया, जो कि कदम्ब की कली के समान भोटे-मोटे प्रजा के आँसुओं से भिंगा था । अर्थात् अयोध्यावासियों की तरह बन्दर राक्षस भी राम के पीछे चल पड़े ॥ ९९ ॥