Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
द्वादशः सर्गः
९५
अन्वयः-अथ शुभाचारः सः काकुत्स्थः असज्जनेन प्रयुक्तं दूषणम् आत्मनः दूषणम् इव न चक्षमे।
व्याख्या-अथ =अनन्तरम् शुभः =साधुः आचारः=आचरणं यस्य स शुभाचारः= युद्धे सम्यक्चारी, सद्वृत्तश्च सः प्रसिद्धः ककुत्स्थरय गोत्रापत्यं पुमान् काकुत्रथः रामः असंश्चसौ जनः असज्जनस्तेन असज्जनेन =दुष्टजनेन, राक्षसखरजनेन च प्रयुक्तं = प्रेषितम् , उच्चारितञ्च दूषयतीति दूषणस्तं दूषणं = खरस्य सेनापतिं दूषणनामकम् आत्मनः = स्वस्य दूषणं = दोषं, पापम् इव = यथा न चक्षमे =न मर्षितवान् ।
समासः-न सन् असन् , असन् चासौ जनः असज्जनस्तेन असज्जनेन। शुभः आचारः यस्य स शुभाचारः।
हिन्दी-जिस प्रकार सदाचारी पुरुष, किसी दुर्जन व्यक्ति के द्वारा अपने ऊपर लगाए गए कलंक को नहीं सहन करते, उसी प्रकार रण में कुशल ककुत्स्थवंशी राम ने भी दुष्ट खर के द्वारा भेजे गये सेनापति दूषण को सहन नहीं किया। अर्थात् उसे समाप्त करने में तत्पर हो गये। रावण के भाई खर की सेना का, दूषण नामक राक्षस सेनापति था ॥ ४६ ॥
तं शरैः प्रतिजग्राह खरत्रिशिरसौ च सः ।
क्रमशस्ते पुनस्तस्य चापात्सममिवोद्ययुः ॥ ४७ ॥ स रामस्तं दूषणं खरत्रिशिरसौ च शरैः प्रतिजग्राह प्रतिजहारेत्यर्थः। क्रमशो यथाक्रमम् । प्रयुक्ता अपीति शेषः। तस्य ते शराः पुनश्चापात्समं युगपदिवोद्ययुः। अतिलघुहस्त इति भावः ॥
अन्वयः-सः तं खरत्रिशिरसौ च शरैः प्रतिजग्राह । क्रमशः "प्रयुक्ताः अपि" तस्य ते पुनः चापात् समम् इव उद्ययुः । ____ व्याख्या-सः रामः तं = दूषणनामक राक्षसं, त्रीणि शिरांसि = मस्तकानि यस्य स त्रिशिराः। खरश्च त्रिशिराश्चेति खरत्रिशिरसौ = एतन्नामानौ च शरैः = बाणैः प्रतिजग्राह = प्रतिगृहीतवान् , प्रतिजहारेत्यर्थः। क्रमशः = क्रमेण "प्रयुक्ता अपि” इति शेषः। तस्य =रामस्य ते = शराः, तेषु दूषणादिषु प्रक्षिप्ता इत्यर्थः। पुनः चापात् = धनुषः समं = युगपत् इव = यथा उद्ययुः = उद्गताः।
समासः-त्रीणि शिरांसि यस्य स त्रिशिराः । खरश्च त्रिशिराश्च खरत्रिशिरसौ, तौ।
हिन्दी-रामने दूषण खर और त्रिशिरा नाम के राक्षसों को अपने बाणों से स्वीकार किया, अर्थात् उनपर बाण छोड़े। यद्यपि राम ने बाण एक-एक करके मारे थे, किन्तु शीघ्रता से छोड़े गए वे बाण ऐसे प्रतीत हो रहे थे मानो धनुष से एक साथ ही निकले हों। तात्पर्य यह है कि राम बहुत ही फुरती से बाण चलाते थे ॥ ४७ ॥
तैस्त्रयाणां शितैर्बाणैर्यथापूर्वविशुद्धिभिः । आयुर्देहातिगैः पीतं रुधिरं तु पतत्त्रिभिः ॥ ४० ॥