________________
द्वादशः सर्गः
समासः-मृगस्य रूपम् इव रूपमस्यासौ मृगरूपस्तेन मृगरूपेण। पक्षिणाम् इन्द्रः पक्षीन्द्रः । पीन्द्रस्य प्रयासः पक्षीन्द्रप्रयासः । तेन क्षणं विनितः इति पक्षीन्द्रप्रयासक्षणविनितः ।
हिन्दी-स्वर्णमृग का रूप धारण करने वाले ( रावण की माया ) मारीच के द्वारा राम लक्ष्मण को धोखा देकर पक्षिराज जटायु के प्रयत्न (या पराक्रम ) से कुछ देर विघ्नबाधा करने पर भी ( युद्ध करके ) रावण ने सीता को हर लिया। चुराकर लंका में ले गया ॥ ५३॥
तौ सीतान्वेषिणौ गृध्र लूनपक्षमपश्यताम् ।
प्राणैर्दशरथप्रीतेरनृणं कण्ठवर्तिभिः ॥ ५४ ।। सीतान्वेषिणौ तौ राघवौ लूनपक्षं रावणेन छिनपक्षं कण्ठवर्तिभिः प्रागैर्दशरथप्रीतेर्दशरथसख्यस्यानणमृणविमुक्तं गृधं जटायुषमपश्यतां दृष्टवन्तौ । दृशेलङि रूपम् ॥ अन्वयः-सीतान्वेषिणौ तौ लूनपर्श कण्ठवतिभिः प्राणैः दशरथप्रीते: अनृणं गृध्रम् अपश्यताम् ।
व्याख्या–सीताम् अन्वेष्टुं शोलं ययोस्तौ सोतान्वेषिणो =जानकीगवेषणतत्परौ तौ = रामलक्ष्मणौ लूनाः = छिन्नाः पक्षाः= पतत्राणि यस्य स लूनपक्षस्तं लूनपक्षम् रावणेनेति शेषः । कण्ठे वर्तन्ते इति कण्ठवर्तिनस्तैः कण्ठवर्तिभिः = कण्ठस्थितैः प्राणन्ति एभिरिति प्राणास्तैः प्राणैः = असुभिः दशरथस्य = राज्ञः प्रीतिः = स्नेहस्तस्याः दशरथप्रीतेः = दशरथ मित्रतायाः अविद्यमानं ऋणं = देयं यस्य स तम् अनृणम् = ऋणरहितं गृवं = जटायुषम् अपश्यताम् = अवलोकितवन्तौ । रामलक्ष्मणाभ्यां रावणेन छिन्नपक्षः कण्ठगतप्राणः जटायुद्देष्ट इत्यर्थः ।
समासः-लूनाः पक्षाः यस्य स तं लूनपक्षम् । दशरथस्य प्रीतिः, तस्याः दशरथप्रीतेः । अविद्यमानं ऋणं यस्य स तम् अनृणम् ।
हिन्दी-सीता को ढूंढने में लगे हुए, राम-लक्ष्मण ने मार्ग में उस जटायु को देखा, जिसके पंख कटे हुए थे तथा जिसने कण्ठ में आए अपने प्राणों से ( सीता को चुराकर ले जाने वाले रावण से लड़कर ) दशरथजी की मित्रता का ऋण चुका दिया था।
विशेष-श्येनी और अरुण का पुत्र जटायु राजा दशरथ का घनिष्ठ मित्र था। अपहरण कर सीता जी को ले जाते समय सीता का रोना सुनकर जटायु ने रावण से खूब घमासान युद्ध किया। घायल होकर गिर पड़ा। रावण सीता को लेकर भाग गया। वह प्राणान्तक पीड़ा से तड़फते हुए राम लक्ष्मण को सीता का समाचार सुनाकर मर गया था और उसको अन्त्येष्टि विधिपूर्वक रामजी ने की थी ॥ ५४ ॥
स रावणहृतां ताभ्यां वचसाचष्ट मैथिलीम् ।
आत्मनः सुमहत्कर्म व्रणैरावेद्य संस्थितः ॥ ५५ ॥ स जटायू रावणहृतां मैथिली ताभ्यां रामलक्ष्मणाभ्याम् । 'क्रियाग्रहणमपि कर्तव्यम्' इति प्रदानवाच्चतुर्थी । वचसा वाग्वृत्त्याचष्ट । आत्मनः सुमहत्कर्म युद्धरूपं व्रणैरावेद्य संस्थितो मृतः॥