Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
१०२ मारयित्वा चिरात् = बहुकालात् कांक्षितम् = अभिलषितं तस्य = वालिनः पदं = स्थानं, राज्यमित्यर्थः। इति तत्पदं तस्मिन् तत्पदे धातोः अस्त्यादेः स्थाने आदेशम् = आदेशभूतं धात्वन्तरम् इव = यथा “अस्तेर्भूः" इति सूत्रेण अस्तिस्थाने भूरित्यादेशः तथैव वालिस्थानेऽपीति भावः। सुष्टु ग्रीवा यरय स सुग्रीवन्तं सुग्रीवं = सुग्रीवनामानं वानरं संन्यवेशयत् = स्थापितवान् । वालिनं निहत्य तद्राज्यं सुग्रीवाय दत्तवान् इति भावः।
समासः-तस्य पदं तत्पदं तरिमन् तत्पदे। चिरात् कांक्षितं चिरकांक्षितं तस्मिन् चिरकांक्षिते । सुष्टु ग्रीवा यस्य स सुग्रीवरतं सुग्रीवम् ।
हिन्दी-पराक्रमी राम ने बाली को मारकर बहुत समय से चाहे हुए बाली के राज्यसिहासन पर उसी प्रकार सुग्रीव को बैठा दिया, जैसे कि व्याकरणशास्त्र में एक धातु के स्थान पर दूसरा धातु शब्द आदेश स्थापनापन्न कर देते हैं।
विशेष-"अरतेk:" सूत्र से लिट लुट लूट आदि लकारों में अस्ति के स्थान पर भू का आदेश होता है। और उस धातु के कार्य को भू करता है। जैसे स्थानी को हटा कर आदेश होता है, वैसे ही बाली को मार कर सुग्रीव को उसके स्थान पर बैठा दिया, तथा उसने स्थानो ( वाली ) का सब कार्य ( राज्य ) किया ॥ ५८॥
इतस्ततश्च वैदेहीमन्वेष्टुं भर्तृचोदिताः।
कपयश्चेरुरातस्य रामस्येव मनोरथाः ॥ ५९ ॥ वैदेहीमन्वेष्टुं मागितुं भ; मुग्रीवेण चोदिताः प्रयुक्ताः कपयो हनुमत्प्रमुखाः, आर्तस्य विरहातुरस्य रामस्य मनोरथाः कामा इव इतरततश्चेरु नादेशेषु बभ्रमुश्च ॥
अन्वयः–वैदेहीम् अन्वेष्टुं भर्तृचोदिताः कपयः, आर्तस्य रामरय मनोरथा इव इतः ततः चेरुः ।।
व्याख्या-विदेहत्य अपत्यं स्त्री वैदेही तां वैदेहीं = सीताम् अन्वेष्टुं = गवेषयितुं = मार्गितुं भा= स्वामिना सुग्रीवेण चोदिताः= प्रेरिता भर्तृचोदिताः कम्पन्ते इति कपयः= वानराः हनूमत्प्रभृतयः आर्तरय = सीतावियोगपीडितरय रामरय = राघवस्य मनः रथाः इव इति मनोरथाः = कामाः अभिलाषाः, इव = यथा इतरततः = अस्मिन्प्रदेशे तस्मिन्प्रदेशे च, सर्वत्रेत्यर्थः। चेरुः भ्रमन्ति स्म ।
समासः-भा चोदिताः इति भर्तृचोदिताः । मनः रथाः इवेति मनोरथाः । मनः एव रथः येषु तु इति वा।
हिन्दी-सीताजी को खोजने के लिये, सुग्रीव के भेजे हनुमान् आदि वानर वैसे ही इधर उधर घूम रहे थे जैसे सीताजी के विरह में पीड़ित दुःखित राम का मन सीता जी की खोज में : धर उधर भटकता था ॥ ५९ ॥
प्रवृत्तावुपलब्धायां तस्याः संपातिदर्शनात् । मारुतिः सागरं तीर्णः संसारमिव निर्ममः ॥ ६० ॥