Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
१७४
रघुवंशे
जलसन्निपाते । पूतः आत्मा येषां ते पूतात्मानस्तेषां पूतात्मनाम् । तनूनां त्यजस्तेषां तनुत्यजाम् । तत्त्वस्य अवबोधस्तत्त्वावबोधस्तेन तत्त्वावबोधेन । शरीरस्य बन्धः शरीरबन्धः।
हिन्दी समुद्र की दो पत्नियों ( गंगा यमुना ) के संगम में स्नान करने से, पवित्र मन वाले पुरुष तत्त्वज्ञानी न होने पर भी वर्तमान शरीर छूट जाने पर शरीर के बन्धन से छूट जाते हैं। अर्थात् अन्यत्र सब स्थानों में शान से ही मुक्ति होती है किन्तु यहां संगम में स्नान करने मात्र से मुक्ति मिल जाती है। पुनः शरीर धारण नहीं करना पड़ता है ॥ ५८ ॥
पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय ।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि कामाः फलितास्तवेति ॥ ५९ ॥ निषादाधिपतेगुहस्य तत्पुरमिदम् । यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतोषु सुमन्त्रः 'हे कैकेयि, तव कामा मनोरथाः फलिताः सफला जाताः' इत्यरुदत् । 'रुदिर अश्रुविमोचने' इति धातोर्लुङ् ॥
अन्वयः-निषादाधिपतेः तत् पुरम् इदं, यस्मिन् मया मौलिमणिं विहाय, जटासु बद्धासु 'सतीषु' सुमंत्रः हे कैकेयि तव कामाः फलिताः इति अरुदत् ।
व्याख्या-निषीदति पापं येषु ते निषादाः। निषादानां = चाण्डालादीनाम् अधिपतिः स्वामी तस्य निषादाधिपतेः =गुहस्य तत् = पूर्वदृष्टं प्रसिद्धं पुरं = नगरम् इदं = पुरोवर्ति अस्ति । यस्मिन् =पुरे मया = रामेण मूलस्यादूरे भवः मौलिस्तस्य मणिः = रत्नमिति मौलिमणिस्तं मौलिमणिं, मुकुटरत्नमित्यर्थः। विहाय =त्यक्त्वा जटासु-सटासु बद्धासु = संयतासु सतीषु सुमंत्र:=राशो दशरथस्य मंत्री, सारथिश्च, कैकेयस्य राशोऽपत्यम् स्त्री कैकेयो, तत्संबुद्धौ हे कैकेयि ! तव भवत्याः काम्यन्ते इति कामाः=मनोरथाः सफलाः =सफलीभूताः, इति कथयित्वा अरुदत् =अश्रणि त्यक्तवान् ।
समासः-अधिकं पातीति अधिपतिः। निषादानाम् अधिपतिः निषादाधिपतिः तस्य निषादाधिपतेः । मौले: मणिः मौलिमणिस्तं मौलिमणिम् ।
हिन्दी-निषादों के राजा गुह का यह सामने प्रसिद्ध नगर शृंगवेर पुर है, जिस नगर में मैंने अपने मुकुटरत्न को त्यागकर ( उतारकर ) जटा बान्धी थी, और जटा के बान्धते ही, 'हे कैकेयी ! तुम्हारी कामना ( इच्छा ) सफल हो गई' यह कह कर सुमंत्र रोने लगे थे ॥ ५९॥
पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ ६॥ पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैनिविष्ट उपभुक्तो हेमाम्बुजरेणुर्यस्य तत् । तत्र ताः क्रोडन्तीति व्यज्यते । ब्रह्मण इदं ब्राह्मम् । 'नस्तद्धिते' इति टिलोपः । ब्राह्म सरो मानसाख्यं यस्याः सरवाः । बुद्धमहत्तत्त्वस्याव्यक्तं प्रधानमिव कारणम् । आप्तस्य वाच आप्तवाचो वेदाः । यद्वा बहुव्रीहिणा मुनयः । उदाहरन्ति प्रचक्षते ॥