________________
रघुवंशे
हिन्दी-सेना सहित राम ने तुरही आदि बाजों से नागरिक लोगों को आनन्द विभोर करते हुए, बूढे पुराने मंत्रियों, राक्षसों, और वानरों, के साथ रघुवंश के राजाओं की उस राजधानी अयोध्या में प्रवेश किया, जो सब और बन्दरवारों से सजी थी, और जिसके चूने से पुते भवनों से धान का लावा बरस रहा था ॥ १० ॥
सौमित्रिणा सावरखेन मन्दमाधूतबालव्यजनो रथस्थः ।
धृतातपत्रो मरतेन साक्षादुपायसंघात इव प्रवृद्धः ॥ ११ ॥ सावरजेन शत्रुघ्नयुक्तेन सौमित्रिणा लक्ष्मणेन मन्दमाधूते बालव्यजने चामरे यस्य स रथस्थो भरतेन धृतातपत्र एवं चतु!हो रामः प्रवृद्धः साक्षादुपायानां सामादीनां संघातः समष्टिरिव । विवेशेति पूर्वेण संबन्धः ॥
अन्वयः-सावरजेन सौमित्रिणा मन्दम् आधूतबालव्यजनः रथस्थः, भरतेन धृतातपत्रः प्रवृद्धः साक्षात् उपायम्घात इव, राजधानी विवेश ।
व्याख्या-अवर स्मिन् काले जातः अवरजः, अवरजेन = अनुजेन, शत्रुध्नेन सहितः साव- . रजस्तेन सावरजेन सौमित्रिणा लक्ष्मणेन मन्दं = शनैः । व्यजन्त्यनेन इति व्यजनम् बालस्य = चमरीपुच्छरय व्यजनं -रोमगुच्छकमिति बालव्यजनम् , बालेन वा निर्मितं व्यजनं बालव्यजनम् । आधूते= ईषच्चालिते बालव्यजने यस्य सः आधूतबालव्यजनः “चामरं बालब्यजनं रोमगुच्छकम्" इति कोषः। रथे तिष्ठतीति रथस्थः स्यन्दनस्थः भरतेन= कैकेयोपुत्रेण आतपात् त्रायते, इति आतपत्रं धृतं = धारितम् आतपत्रं = श्वेतच्छत्रं यस्य स धृतातपत्रः प्रवृद्धः-प्रकर्षेण वृद्धिंगतः साक्षात् = प्रत्यक्षतः उपायानां = सामादिचतुर्णा संघातः=समूहः इति उपायसंघात इव - यथा राजधानी विवेश, इति पूर्वेणान्वयः।
समासः-अवरजेन सहितः सावरजः तेन सावरजेन । आधूते बालव्यजने यस्य सः आधूतबालव्यजनः । धृतम् आतपत्रं यस्य स धृतातपत्रः। उपायानां संघातः उपायसंघातः।
हिन्दी-लक्ष्मण और शत्रुघ्न, रथ पर बैठे हुए, राम के ऊपर धीरे-धीरे चमर डुला रहे थे और भरतजी छत्र लिये हुए थे। इस प्रकार चारों भाई अयोध्या में प्रविष्ट हुए मानो साक्षात् साम दान दण्ड और मेद नामक चारों उपायों के समूह इकट्ठा हो ॥ ११॥
प्रासादकालागुरुधूमराजिस्तस्याः पुरो वायुवशेन मिना ।
वनान्निवृत्तेन रघूर मेन मुक्ता स्वयं वेणिरिवावमासे ॥ १२ ॥ वायुवशेन भिन्ना प्रासादे यः कालागुरुधूमस्तस्य राजी रेखा। वनान्निवृत्तेन रघूत्तमेन रामेण स्वयं मुक्ता तस्याः पुरः पुर्या वेणिरिव। आबभासे। पुरोऽपि पतिव्रतासमाधिरुक्तः । 'न प्रोषिते तु संस्कुर्यान्न वेणी च प्रमोचयेत्' इति हारीतः ॥
भन्दयः-वायुवशेन भिन्ना कालागुरुधूमराजिः वनात् निवृत्तेन रघूत्तमेन स्वयं मुक्ता तस्याः वेणिः इव आबभासे ।