________________
पञ्चदशः सर्गः
२५३
समासः-स्वस्य तेजः स्वतेजस्तेन स्वतेजसा । त्राणस्य अभावः त्राणाभावस्तस्मिन् आणाभावे । शापः एव अस्त्रं येषान्ते शापास्त्राः ।
हिन्दी-उन मुनियों ने राम को अपना रक्षक जानकर, उस लवणासुर को अपने शापरूपी तेज से नहीं मारा। यह उचित ही है। क्योंकि रक्षा करने वाले ( राजा ) के न रहने पर हो, शाप से नष्ट, भस्म कर देना रूपी अस्त्र छोड़कर तपोबल को खर्च करते हैं । अर्थात् रक्षक न होने पर ही मुनि, शाप रूपी अस्त्र छोड़ते हैं । शाप देने से तपोबल नष्ट होता है ॥ ३ ॥
प्रतिशुश्राव काकुत्स्थस्तेभ्यो विघ्नप्रतिक्रियाम् ।
धर्मसंरक्षणार्थैव प्रवृत्तिर्भुवि शाङ्गिणः ॥ ४ ॥ काकुत्स्थो रामस्तेभ्यो मुनिभ्यो विघ्नप्रतिक्रियां लवणवधरूपां प्रतिशुश्राव प्रतिजशे । तथाहि । भुवि शाङ्गिणो विष्णोः प्रवृत्ती रामरूपेणावतरणं धर्मसंरक्षणमेवार्थः प्रयोजनं यस्याः सा तथैव ॥
अन्वयः-काकुत्स्थः तेभ्यः विघ्नप्रतिक्रियां प्रतिशुश्राव। हि भुवि शाङ्गिणः प्रवृत्तिः धर्मसंरक्षणार्था एव । भवतीति शेषः ।
व्याख्या ककुदि तिष्ठतीति ककुत्स्थः ककुत्स्थस्य गोत्रापत्यं पुमानिति काकुत्स्थः =रामः तेभ्यः = मुनिभ्यः विघ्नस्य = यशविघातकस्य लवणासुरस्येत्यर्थः । प्रतिक्रिया = दूरीकरणं वधक्रिया तां प्रतिक्रियां, लवणासुरस्य वधमित्यर्थः। प्रतिशुश्राव = प्रतिजशे, प्रतिश्रुतमित्यर्थः । हि यतःमुवि पृथिव्याम् शृंगस्य विकारः शाङ्ग =धनुररयास्तीति शाङ्गों तस्य शाङ्गिणः = नारायणस्य प्रवृत्तिः = अवतरणं, रामरूपेण संसारे आगमनमित्यर्थः। धर्मस्य संरक्षणं = पालनमेव अर्थः = प्रयोजनं यस्याः सा धर्मसंरक्षणार्थी एव भवतीति शेषः ।
समास:-विघ्नस्य प्रतिक्रिया विघ्नप्रतिक्रिया तां विघ्नप्रतिक्रियाम् । धर्मस्य संरक्षणं धर्मसंरक्षणं, धर्मसंरक्षणमेव अर्थः यस्याः सा धर्मसंरक्षणार्था ।
हिन्दी-ककुत्स्थ वंशी राम ने उन मुनियों के विघ्न को दूर करने ( लवणासुरवध ) की प्रतिज्ञा की। ठीक ही है-पृथिवी में विष्णु का रामरूप से अवतार लेना केवल धर्मरक्षा के लिये ही है ॥ ४॥
ते रामाय वधोपायमाचख्युर्विबुधद्विषः।
दुर्जयो लवणः शूली विशूल: प्रार्थ्यतामिति ॥ ५ ॥ ते मुनयो रामाय विबुधद्विषः सुरारेलवणस्य वधोपायमाचख्युः । लुनातीति लवणः । नन्द्यादित्वाल्ल्युः। तत्रैव निपातनाण्णत्वम् । लवणः शूली शूलवान्दुर्जयोऽजय्यः । किन्तु विशूलः शूलरहितः पार्थ्यतामभिगम्यताम् । 'याच्ञायामभियाने च प्रार्थना कथ्यते बुधैः' इति केशवः ॥