________________
पञ्चदशः सर्गः
२६३
इत्यर्थः। शाखाः सन्त्यस्य असौ शाखी = वृक्षः अन्तरा=मध्ये निशितैः तीक्ष्णैः बाणैः न शकलम् अशकलम् , अशकलं शकलं सम्पद्यमानः इति शकलीकृतः खण्डशः कृतः सन् सुमित्रायाः अपत्यं पुमान् सौमित्रिस्तस्य सौमित्रेः शत्रुघ्नस्य गात्रं = शरीरं न प्राप =न प्राप्तः किन्तु पुष्पाणां = कुसुमानां रजः = परागः पुष्परजः प्राप = अवाप ।
समासः-पुष्पाणां रजः पुष्परजः । नैर्ऋतेन ईरितः नैर्ऋतेरितः।।
हिन्दी-निर्जति ( राक्षसी ) के लड़के लवणासुर का फेंका हुआ वृक्ष बीच में ही पैने बाणों से टुकड़े-टुकड़े होकर खतम हो गया, और शत्रुघ्न के शरीर तक नहीं पहुँचा। किन्तु उस वृक्ष के फूलों की पराग ही शत्रुघ्न के शरीर तक पहुँच पाई ॥ २० ॥
विनाशात्तस्य वृक्षस्य रक्षस्तस्मै महोपलम् ।
प्रजिघाय कृतान्तस्य मुष्टिं पृथगिव स्थितम् ॥ २१ ॥ रक्षी लबणस्तस्य वृक्षस्य विनाशाद्धेतोः। महोपलं महान्तं पाषाणम् । पृथस्थितं कृतान्तस्य यमस्य मुष्टिमिव । मुष्टिशब्दो द्विलिङ्गः । तस्मै शत्रुघ्नाय प्रजिघाय प्रहितवान् ।
अन्वयः-रक्षः तस्य वृक्षस्य विनाशात् महोपलं पृथक् स्थितं कृतान्तस्य मुष्टिम् इव तस्मै प्रजिघाय।
व्याख्या-रक्षः=राक्षसः= लवणासुरः तस्य = उन्नतस्य वृक्षस्य = पादपस्य विनाशात् = खण्डशः करणात् हेतोः, उप लातीति उपलः =पाषाणः, पलतीति पलः, ओः= शम्भोः पल:= बोधकः इति वा उपलः। महाश्चासौ उपलः महोपलस्तं महोपलं = विशालं पाषाणं पृथक् । स्थितं =यमादन्यत्रवर्तमानं कृतः अन्तः= विनाशो येन स कृतान्तस्तस्य कृतान्तस्य = यमस्य मुष्टिम् = संग्राहम् इव यथा “मुष्टिबन्धः संग्राहः” इत्यमरः। तस्मै शत्रुघ्नाय प्रजिघाय= प्रहितवान् ।
समासः-महाश्चासौ उपलः महोपल स्तं महोपलम् । कृतः अन्तो येन स कृतान्तस्तस्य कृतान्तस्य । विशेषेण नाशः विनाशः ।
हिन्दी-उस बड़े भारी वृक्ष के टुकड़े-टुकड़े होकर नष्ट होने के कारण लवणासुर ने एक भारी चट्टान शत्रुघ्न के ऊपर ऐसी फेंकी मानो वह शरीर से अलग हुआ यमराज का चूसा ही हो ॥ २१ ॥
ऐन्द्रमस्त्रमुपादाय शत्रुघ्नेन स ताडितः।
सिकतात्बादपि परां प्रपेदे परमाणुताम् ॥ २२ ॥ स महोपल: शत्रुघ्नेनैन्द्रमिन्द्रदेवताकमस्त्रमुपादाय ताडितोऽभिहतः सन् । सिकतात्वात्सिकताभावादपि परां परमाणुतां प्रपेदे । यतोऽणुर्नास्ति स परमाणुरित्याहुः ॥
अन्वयः–सः शत्रुध्नेन ऐन्द्रम् अस्त्रम् उपादाय ताडितः सन् सिकतात्वाद् अपि परां परणुतांप्रपेदे ।