Book Title: Raghuvansh Mahakavya
Author(s): Kalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
Publisher: Motilal Banarsidass
View full book text
________________
रघुवंशे
समासः न प्राप्तं यौवनं यस्य स तम् अप्राप्तयौवनम् | अंक एव शय्या इति अंकशय्या, अंकशय्यायां तिष्ठति तम् अंकशय्यास्थं भुवः पतिः भूपतिः तस्य भूपतेः ।
२७६
हिन्दी - इसके बाद एक दिन, साम्राज्य का रहने वाला एक ब्राह्मण, जो अभी जवान नहीं हुआ था ऐसे मरे हुए बालक को राजा के द्वार पर गोदरूपी खाट से उतार कर फूटफूटकर रोने लगा ॥ ४२ ॥
शोचनीयासि वसुधे या त्वं दशरथाच्च्युता ।
रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता ॥ ४३ ॥
हे वसुधे, दशरथाच्च्युता या त्वं रामहस्तमनुप्राप्य कष्टात्कष्टतरं गता सती शोचनीयासि ॥ अन्वयः - हे वसुधे ! दशरथात् च्युता या त्वं रामहस्तम् अनुप्राप्य कष्टात् कष्टतरं गता सती शोचनीयासि ।
व्याख्या - वसूनि = धनानि दधातीति वसुधा, तस्याः संबुद्धौ हे वसुधे = हे वसुन्धरे । दशरथात् = रामपितुः च्युता = भ्रष्टा या त्वं = या भवती रामस्य हस्तः = बाहुः इति रामहस्त स्तं रामहस्तम् अनुप्राप्य = अवाप्य कष्टात् = कृच्छ्रात् अतिशयेन कष्टः = दुःखमिति कष्टतरस्तं कष्टतरं गता = प्राप्ता सती शोचयितुं योग्या शोचनीया = शोच्या असि जाता ।
समासः - रामस्य हस्तः रामहस्त स्तं रामहस्तम् ।
हिन्दी – “ वह ब्राह्मण कहता है कि " - हे वसुन्धरे ! दशरथ से हीन ( उनके बाद ) राम के हाथ में आकर ( राम के राजा होने पर ) कष्ट से अधिक घोर कष्ट में पड़ गई हो अतः तुम शोचनीय दशा को प्राप्त हो गई हो ॥ ४३ ॥
श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्वाय राघवः ।
न कालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥ ४४ ॥
गोप्ता रक्षको राघवस्तस्य विप्रस्य शुचः शोकस्य हेतुं पुत्रमरणरूपं श्रुत्वा जिहाय लज्जित: ! कुतः । हि यस्मादकालभवो मृत्युरिक्ष्वाकूणां पदं राष्ट्रं नास्पृशत् । वृद्धे जीवति यवीयान्न म्रियत इत्यर्थः ॥
अन्वयः– गोप्ता राघवः तस्य शुचः हेतुं श्रुत्वा जिहाय, हि अकालभवः मृत्युः इक्ष्वाकुपद न अस्पृशत् ।
व्याख्या - गोपायतीति गोप्ता = पालकः राघवः = रामः तस्य = ब्राह्मणस्य शुचः = शोकस्य हेतुं = कारणं, पुत्रमरणरूपं श्रुत्वा = आकर्ण्य जिहाय = लज्जितोऽभूत् । हि = यतः अकाले = असमये भवः = जातः इति अकालभवः मृत्युः = मरणम् इक्ष्वाकूणाम् = इक्ष्वाकुकुलोत्पन्नानां पदं = राष्ट्रं न अस्पृशत् = न स्पर्शितवान् । इक्ष्वाकुराज्ये पितरि जीवति सति पुत्रमरणं, तथा वृद्धे जीवति यूनो मरणं न भवतीत्यर्थः ।